________________
* व्यवहाररत्नम् *
विश्वे विष्णुः कामः शिवः शशी ॥ ११ ॥ पक्षत्यादिति-थीनान्तु पक्षयोरुभयोरपि । एते देवगणाः सर्वे पतयः स्युर्यथाक्रमम् | १२| अथ तिथीनांविशेषसंज्ञामाह नन्दा भद्रा जया रिक्ता पूर्णा च तिथयःक्रमात् ॥ वारत्रयं समावृत्य भवन्ति प्रतिपन्मुखाः ॥ १३ ॥ अथ सिद्धियोगाः * शुक्रे नन्दा बुधे भद्रा गुरौ पूर्णा कृजे जया || शनौ रिक्ता शुभा ज्ञेया सर्वकार्येषु धीमती १४ * अथ निंद्ययोगाः ** आदित्यभामयोर्नन्दा भद्रा भार्गवचन्द्रयोः || बुधे जया गुरौ रिक्ता शनौ पूर्णातिनिन्दिता || १५ || अथ दग्धातिथिः चापे मीने द्वितीया च चतुर्थी वृषकुम्भयोः ॥ षष्ठी मेषे कुलीरै।ख्ये कन्यायुग्मे तथाष्टमी ।। १६ ।। दशमी वृश्चिके सिंहे द्वादशी मकरे तुळे || एतास्तु तिथयो दग्धाः शुभे कर्म्मणि वर्जिताः ||१७|| अथ भद्रा विचारः अष्टम्यां पूर्णिमायाञ्च शुक्ले पूर्वदले स्मृता || एकादश्याञ्चतुर्थ्याञ्च तथा भद्रा परे दले ॥ १८ ॥ कृष्णेऽन्त्याद्धे तृतीयायां दशम्यामपि संस्थिता ।। सप्तम्याञ्च चतुर्द्दश्यां पूर्वे भागे तथैव च ।। १९ । मह द्विध्वंसिनी या च नित्यं दुःखप्रदायिनी ॥ सा भद्रा
१ पक्षतिः पक्षमुळं पूतिपत् । 'पूक्षात्तिः” (५|२| १५ |) इति । तिपूत्यय स्तद्धितः ।। २ शनिभौमगतारिक्ता सर्वसाम्राज्यदायिनीत्यन्यत्रोक्तम् ३ कर्कटके | " स्यात्कुलीरः कर्कटक" इत्यमरः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com