________________
* व्यवहाररत्नम् *
चान्द्रो नाक्षत्रश्च तिथिव्रते || ८ || रविसंक्रान्तितः सौरः
तदिनक्तैकभक्तयोरिति । नाक्षत्रप्रयोजनन्तु तत्रैव (स्मृतितत्त्वे ) विष्णुधर्मोत्तरे
"नक्षत्र सत्राण्ययनादि चेन्दोम्र्म्मासेन कुर्याद्भगणात्मकेने" ति । नक्षत्रसत्राणिमाससाध्ययागविशेषरूपाणि याज्ञिकप्रसिद्धानि । इन्द्रोरयनानि सोमायनाख्यसत्राणि । इतिसमयप्रकाशः । एवं जन्मनक्षत्रे शनिभौमवारफलन्नाक्षत्रमासेन, योग्यत्वात् । यथाह दीपिकायाम्
"जन्मन्वृक्षेप दास्तां भौमशनैश्चरौ । समासः कल्मषोनाममनोदुः खपदायकः” । इति । अन्यत्रापि " जन्मक्षयुक्ता यदिजन्ममासे यस्यधनं जन्मतिथिर्भवेत्तु । भवंतितद्वत्सरमेवसम्यक् नैरुज्यसम्मानमुखानि तस्ये 'ति । अयमेवनाक्षत्रोवत्सरः कैश्चिदुच्यत इति जन्मर्क्षादिकोमा सोजन्ममा सोनाक्षत्रस्तत्र क्षौर विचारोऽपि निषेधमुखेन शास्त्रे दर्शितइति क्षौरेनाक्षत्र इत्येवमवगेहणक्रमेण यथासंख्यान्वयोऽप्यत्र केषाञ्चिदभिमतः il अत्र विशेषतो नाक्षत्रमासप्रयोजनानुक्तिस्तु बालानांयथोपयोग मेवात्र प्रयोजनोक्ते:
प्रतिज्ञानात् त्रिविधमासस्यैव व्यवहारकृत्ये समुपयोगात् । तथाचोक्तं स्मृति तत्वे - " मैथिळास्तु - "बिवाहा दौस्मृतः मौरो यज्ञादौसावनोमतः | शेषकर्माणिचान्द्रः स्याद्वेषमासविधिः स्मृत " इति ॥ शेषे - सौरादिविशेषोल्ले खरहिते | इत्याहुरि "ति ||
१ सूरः सूर्यः “ सूरसूर्यार्यमादित्यद्वादशात्म दिवाकरा" इत्यमरः तत्कृतः सौरः । रवेर्मेषादिराशिषु संक्रमणात्मवृत्तः । तत्प्रवृत्तिरंश क्रमेणप्रसिद्धा । तथा चायं त्रिंशद्दिनात्मकोनियतः । सवनोयज्ञः सवोऽध्वरोयाग इत्यनर्थान्तरम् । " यज्ञः सवोऽध्वरोयागः सप्ततन्तुर्मखः क्रतुरित्यमरः । तदारम्भोपलक्षितः कालः सावनः उदयादुदयं यावत्रिंशद्दिनात्मक एवमासः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com