Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
१४
* व्यवहाररत्नम् *
वा त्रिसूर्येवा छिद्रेणापि च संयुते । रात्रौ धनुषि शाक्रे च कईमस्यापि वर्षणे ।। ६९ ।। केतुद्रमः शोणितवर्षणंच धराप्रकम्पः करकानिपातः || उल्काशनीनां पतनं यदा स्यात्तदा निषिद्धानि दिनानि सप्त ॥ ७० ॥ इति संक्षेपतः प्रोक्तमुपदेशाभिधं मया । श्रेष्ठप्रकरणं यस्मादनेन ज्ञानमुत्तमम् ।। ७९ ।। * इति मैथिल श्रीमानुनाथदैवज्ञविरचिते व्यवहाररत्ने उपदेशप्रकरपम् ।। * ।। १ ।। सर्वाश्रमाणानितराम्बलीयान् गृहाश्रमः प्राङ्मुनिभिः प्रदिष्टः । तस्मादहं वच्मि गृहकियाया विधानमादौ व्यवहारयोग्यम् ॥ १ ॥ * अथ वास्तुभूमिज्ञानमाह । पूर्वोत्तरप्लदा भूमिः सुप्रसन्ना समापि च ॥ ईशेप्लवा निरुच्छिष्टा प्रशस्ता वासकर्म्मणि || २ || दक्षिणापरनीचा भूः सोपरा विषमापि वा || वृक्षच्छायासमायुक्ता वर्जनीया प्रयत्नतः ।। ३ ।। उक्तादन्यस्वरूपा तु निषिद्धविहितेतरा || तस्यामपि भवेच्छान्त्याथवा देवद्विजाज्ञया | ४ | श्वता च ब्राह्मणीभूमिः क्षत्रियारुणविग्रहा !! वैश्या पीततरा ख्याता कृष्णा शूद्राभिधीयते ॥ ५ ॥ ब्राह्मणी ब्राह्मणस्योक्ता क्षत्रिया क्षत्रियस्य च ॥ वैश्या वैश्यस्य निर्दिष्टा शूद्रा शुद्रस्य शस्यते || ६ || हस्तमात्रं खने
१ “मूर्येदृष्टे,, इति शेषः । २ ऐशाम्बांनिम्ना । ३ अम्बेरतुषिता । ४ नैर्ऋत्मांनिम्मा |
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96