Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 45
________________ ३० * व्यवहाररत्नम् * ल्याणं वाञ्छित प्रतिबंधकृत् ॥ शुक्ले वाञ्छित सिद्धिः स्यादद्रव्यलाभः शुभप्रदः ॥ ५५ ॥ द्वितीया च तृतीया च पञ्चमी सप्तमी तथा ॥ दशम्येकादशी चैव द्वादशी च तथैवच ।। ५६ ।। एता अति प्रशस्ताः क्षाग्रहणकर्मणि ॥ षष्ठी च नवमी चैव तथाचान्याधमास्मृताः'।। ५७ ॥ अथ नक्षत्रशुद्धिः स्थिरर्क्षे मृगशीर्षे च तथा चित्रानुराधयोः ॥ पौष्णेच वसुभे चैव दीक्षाकर्मप्रशस्यते ॥ ५८॥ अथात्रवारादिनियमः कुजार्कजो परित्यज्य सुमूहर्ते शुभोदये || ताराचन्द्रानुकूळे च मन्त्रग्रहणमुच्यते ॥ ५९ ॥ चन्द्रसूर्य्यग्रहे चैव सिद्धिक्षेत्रे सुरालये । प्रोक्तमेतत्तु दीक्षायां सुधीभित्रैव चिंतयेत् ॥ ६०॥ अथ मैत्रीकरणदिवसमाह पुष्येंदु मित्रभाग्येषु द्वादश्यां शुभवासरे ॥ अष्टम्यां वा स्थिर लग्ने मैत्रीकरणमुत्तमम् ॥ ६१ ॥ * इति मैथिल श्री भानुनाथदेवज्ञविरचिते व्यव हार - रत्ने कृष्यादिप्रकरणम् || ३ || ॐ गृहस्थानां परो धर्मः पाणिग्रहणमेव च ॥ तस्मात् तत्समयः स्वीबदेश रीत्योच्यतेऽधुना || १ || द्वितीया दशमी चैव १ अत् " अस्वाध्यायान्विवर्जयेत्” इति आगमकल्पद्रुमेऽभिधानादनध्यायदिने दीक्षा निषिद्धा ॥ तथाच ततैव " मौनीबन्धोक्तबत्सर्वे दीक्षाकाले विचिन्तयेत् । स्थिरमे मौखिमे चैव दीक्षा कार्याशुभोदये " इति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96