Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 50
________________ * व्यवहाररत्नम् * हस्तोत्तरात्रयहरीज्यविधातृभानि । एतेषु भेषु शयना सनपादुकादिसम्भोगकार्यमुदितं मुनिभिःशुभाहे ३८ * अथोदर्तनादिविचारमाह * उद्धर्तनविधानं च स्त्रियो वा पुरुषस्यवा । दशम्यां च त्रयोदश्यां द्वितीया यां विवर्जयेत् ॥३९॥ *अथ वस्त्रप्रक्षालनविचार शनिभौमदिने श्राद्धे कुहूषष्ठीनिरंशके ।। वस्त्राणां क्षारसंयोगो दहत्यासप्तमं कुलम् ॥४०॥ अथ तैलाभ्यं गविचारः खौ गुरौ भृगौ भौमे षष्ठां संक्रान्तिवासरे । चित्रावैष्णवहस्तेषु तैलाभ्यंगं न कारयेत् ॥४१॥ * अथ तैलाभ्यंगे निषिद्धवाराणां प्रतीकारमाह * रवौ पुष्पं गुरौ दूर्वा भूमि भूमिजवासरे ॥ भार्गवे गोमयं दद्योत्तैलदोषोपशान्तये ॥४२|| सार्षपं सघृतं वापि यत्तैलं पुष्पवासितम् ।। अदुष्टं पक्वतैलं च स्नानाभ्यंगे च नित्यशः॥४३।। *अथपुंसांवस्त्रधारणदिवसमाह ब्रह्मानुराधवसुपुष्यविशाखहस्तचित्रोत्तराश्विपवनादितिरेवतीषु ॥ जन्मत्रंजीवबुधशुक्रदिनोत्सवादोधार्यनवं वसनमीश्वरविप्रतुष्ट्या ।। ४४ ।। * अथ पुंसां. भूषणपरिधानदिवसमाह * बुधगुरुसितवारे त्यक्तरिक्तातिथौ च पितृकरवसुचित्रामैत्रपुष्योत्तरेषु ।। रजतकनकरत्नं शंखदन्तप्रवालम् शुभदमिहसमस्तं धार्य १ अत्रसाधनमुक्तमधस्तात् ॥ (२३पृ.) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96