Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 28
________________ * व्यवहाररत्नम् * गुर्वादित्ये गुरौ सिंहे मकरे च तथैव च ॥ याम्यायने हरौ सुप्वे सर्वकर्माणि वर्जयेत् ।। ६० ॥ * अथ मन्वादियुगादिविचारः ॥ * मन्वादयो युगाद्याश्च रविसंक्रान्तयोऽपि च ॥ मासांन्ताश्चपरित्याज्या व्रतादिशुभकर्मसु ।। ६१ ।। अश्वयुक्शुक्लनवमी द्वादशी कार्तिके तथा ॥ तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ ६२॥ फाल्गुनस्याप्यमावास्या पोषस्यैकादशी सिता ॥ आषाढस्यापि दशमी माघमासस्य सप्तमी ।। ६३॥ पुनर्भा-द्रेऽष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा ।। कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पंचदशी तथा ॥ ६४ ॥ एते मन्वादयः प्रोक्ता गर्गादिमुनिभिः पुरा ।। युगादिकं च यत्प्रोक्तं नददामि पृथक् पृथक ॥६५॥ वैशाखशुक्लपक्षे च तृतीयायां कृतं युगम् ।। कात्तिके शुक्लपक्षे तु त्रेता च नवमेऽहनि ॥६६॥ द्वापरंच त्रयोदश्यां कृष्णे भाद्रपदस्य च ॥ माघस्य पूर्णिमास्यांतु घोरं कलियुगन्तथा ॥६७॥ * अथोत्पातविचारः॥ * दिशान्दाहे समुत्पन्ने ग्रहणे चन्द्रसूर्ययोः ॥ धू. लिपाते च निर्धेते धूमपाते तथैव च ॥६८॥ द्विसूर्ये १'चान्मासाद्याः । “रविदग्धंदिनत्रय' मितिवचनात् । अत्राहुः । "विषुवायनेषुपरपूर्वमध्यमान्दिवसांस्त्यजेदितरसंक्रमेषु च । घटिकास्तु षोड़श शुभक्रियाविधौ परतोऽपि पूर्वमपि सन्त्यजे बुधः ॥ इति ॥ २ वाय्वभिहतवायुप्रपतनजन्यशन्दविशेपे ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com .

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96