Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* न्यवहाररत्नम् * गुणं विपत्तौ च वधे हेम तिलैः सह ॥३५॥ * अथ (संक्षेपेण) चन्द्रावस्थितिविचारः अश्विनी भरणी सर्वा कृत्तिकैकपदापि च ॥ नवभिनवभिः पादैरेवं मेषवृषादयः ॥ ३६ ॥ * अथ मेषादीनां संज्ञान्तरमाह * चराख्यश्च स्थिराख्यश्च द्विस्वभावाभिधोऽपि च । त्रिभिस्त्रिभिश्च मेषाद्यैज्ञेया द्वादश राशयः ॥ ॥ ३७॥ कराकरौ मेषवृषौ युग्मकक्कों तथैव च ॥ दाभ्यां द्वाभ्यामनेनैव क्रमेण परिकीर्तितौ ॥ ३८ ॥ * अथ चन्द्रानयनमाह * ॥ जन्मराशिं समारभ्य दिनभं गणयेद्बुधः ॥ यावन्मिता भवेत्संख्या तावदेव हि चन्द्रमाः ॥ ३९ ॥ रिष्फाष्टतुर्यगं हित्वा सर्वे चन्द्राःशुभप्रदाः ॥ सर्वेषु शुभकार्येषु विज्ञयाः सूरिभिः सदा ॥४०॥ अथ चन्द्रवर्णज्ञानमाह * मेषालिसिंहगश्चन्द्रो रक्तवर्णस्तुमध्यमः ॥ वृषकर्कतुलासंस्थः श्वेतः सिद्धिप्रदायकः ॥ ४१ ।। मीने धनुद्धरे युग्मे पीतः शमविवृद्धिदः । कन्यामकरकुम्भेषु कृष्णवर्णो भयप्रदः ॥ ४२ ॥ अथ चन्दताराबलकथनम् * कृष्णे बलवती तारा शुक्लपक्षे तु चन्द्रमाः ।। तयोबलं सदा ग्राह्य सर्वेषु शुभकर्मसु ॥ ४३ ।। मासे तु शुक्ल प्रतिपत्प्रवृत्ते पूर्णः शशी मध्यबलो दशाहे ॥ श्रेष्ठो द्वितीयेऽल्पवलस्तृतीये सौम्यैश्च दृष्टो बलवान सदैव १ रिझोद्वादशस्तुर्थ्यचतुर्यः ॥ “गृहप्रवेशेयात्रां चन्द्रोद्वादशगः शुभः" इतित्वन्यत्रोक्तम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96