Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 43
________________ ३० ] [वादमालायां स्पदयोर्विनियोगे फले विशेषाभावात् , न हि परकीयानभक्षणे बुभुक्षा न प्रशाम्यतीति । न च यथेष्टविनियोगत्वं प्रवृत्तिगतो जातिविशेषस्तदवच्छिन्ने स्वत्वज्ञानमवश्यं हेतुरिति वाच्यम्, तादृशजाती मानाभावादनिष्टशङ्काजनितभयाभावादेव यथेष्टत्वोपपत्तः । भावेऽपि तत्रावश्यकन्वेन स्वार्जितत्वादिज्ञानस्यैव हेतुत्वाच्च । न च "प्रतिग्रहादिक्रिया प्रतिग्रहीत्रादिसम्बन्धजनिका कर्मक निरूप्यत्वाद्गमनवदि"त्यनुमानं तयोः स्वत्वाख्ये सम्बन्धे मानम् , कर्मकत भावेन सिद्धसाधनात् , । न च ग्राम गच्छतीत्यत्र संयोगवत्साक्षात्सम्बन्धः साध्यः; ग्रामं त्यजतीत्यादावनैकान्तिकत्वात् । न हि तत्र त्यागक्रियया कत मणोः कश्चित्साक्षात्सम्बन्धो जन्यते । नापि स्वस्वमित्यनुगतप्रत्यय एव स्वत्वे मानम् , तदसिद्धरननुगतस्यैव तद्विषयत्वात् । न चानुगतव्यवहारमात्रात्तत्सिद्धिः, शब्दानुगमेन विषयानुगमस्य कल्पयितुमशक्यत्वादन्यथा सिंहादेष्वपि हरिहरिरित्यनुगतव्यवहारादतिरिक्तो हरित्वपदार्थः कल्पनीयः स्यादिति नैयायिकसम्प्रदायः॥ नव्यास्तु स्वत्वं न यथेष्टविनियोगविषयत्वं, तादृशविनियोगोपायविषयत्वं वा । विषयताया धनस्वरूपत्वे पूर्व क्रयादेरुत्तरं च विक्रयादेः स्वत्वाऽप्रच्यवप्रसङ्गात् । क्रयादिस्वरूपत्वे च तदपगमेऽपि स्वत्वाभावप्रसङ्गात् । न च यद्व्यति

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158