Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 131
________________ ११८ ] [ वादमालायां मण्यादिना वहन्यादिनिष्टदाहशक्तेरिव वातपित्तादिनेन्द्रियनिष्टपरिच्छेदकशक्तेरेव विनाशस्वीकागैचित्यादन्यथौपधपानविशेषेण तदननुग्रहप्रसङ्गात् । तेन विहितनिपिद्धान्येनाऽदृष्टान्तरोत्पादनाऽयोगात् । इन्द्रियनिष्टपरिच्छेदकशक्तेश्वोत्तेजकेन वह्निनिष्टदाहशक्तेरिव तेनोत्पादनस्य तस्य वस्तुयुक्तत्वात् । किञ्चैवमदृष्टोपग्रहस्य नियामकत्वे इन्द्रियस्यैवाऽसिद्धिप्रसङ्गः, . तदुपगृहीतकर्णशष्कुल्यादिनैव तत्कार्यसम्भवात् । एतेन कर्मशष्कुल्यवच्छिन्नाकाशमेव श्रोत्रमदृष्टविशेषोपग्रहाच्च नातिप्रसङ्ग इत्यादि नैयायिकमतमपास्तम् । भावेन्द्रियाण्यपि लब्ध्युपयोगभेदाद् द्विधा । तत्र लब्धिस्तदावरणकर्मक्षयोपशमः, प्रमाणं च तत्र तुल्येपि द्रव्येन्द्रियविषयसम्बन्धे पुरुषभेदेन बहुबहुविधादिविषयपरिच्छेदभेद एव, तत्सन्निधानादेव चात्मा द्रव्येन्द्रियनिवृत्ति प्रति व्याप्रियत इति । उपयोगश्च लब्धिनिमित्तो मनःसाचिच्यादा. त्मनोऽर्थग्रहणं प्रति व्यापारः, प्रमाणं च तत्र सुपुप्तौ ज्ञाना. भावान्यथानुपपत्तिः । संयोगादौ क्रियाया इवार्थग्रहण आत्मनोप्याभिमुख्यस्य नियामकस्य स्वीकारात् , तस्येवोपयोगरूपत्वात्सुषुप्तौ तदभावादेव ज्ञानानुत्पादसम्भवाद्वयासङ्गोप्यर्थात(न्त)रानुपयोगादेव सम्भवति, नत्विन्द्रियान्तरेणाणो. मनसोऽसम्बन्धादन्यथा रूपादिकं पश्यतो जातायां गीतादि. बुभुत्सायां सद्य एव गीलादिश्रवणानुपपत्तेः । बुभुत्सया मनो

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158