Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 150
________________ मदृष्टसिद्धिवादः ] - [१३७ हेतुत्वं वा, तत्त्वज्ञानिनां दानादेरनंतत्वाऽऽपत्तेभॊगानापत्तेश्च, तथा च तत्त्वज्ञानिना मुक्तिदुर्लभे' ति चेत् १ न, तद्ध्वंसातिरिक्तध्वंसव्यापारत्वात्तत्र स्वर्गानुत्पत्तेः । तस्माद्दानादिकं स्वर्गजनकजनकमित्याद्यनुमितौ क्लुप्तध्वंसविषयत्वादतिरिक्ता(ऽदृष्टाऽ)सिद्धिरिति' तत्सर्वमपास्तम् । तत्त्वज्ञानप्राक्कालीनकर्मणां बहूनामवस्थितिध्रौव्येन तेषां ध्वंसव्यापाराऽप्रच्यवादविकलफलत्वे मोक्षानुत्पादप्रसङ्गात् । अथ 'तत्त्वज्ञानविशिष्टध्वंसातिरिक्तध्वंसस्य व्यापारत्वान्न दोषो, अत एव 'ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुने ति संगच्छते, इदमेव हि सर्वकर्मभस्मसातकारित्वं यत्सर्वकर्मफलविघटकन्वमिति चेत् ? न, एवं सति तत्वज्ञानिनां प्रारब्धफलस्याप्यनापत्तेः । 'तत्वज्ञानविशिष्टाऽदत्तफलध्वंसातिरिक्तध्वंसस्य व्यापारत्वात्तद्भवभोग्यकर्मणश्च दत्तफलत्वान्न दोष' इति चेत् ? नैहिकामुष्मिकनानाफलजनककर्मणां तद्भवानुभूतकिश्चित्फलानां तथाप्यनाशे मोक्षानुपपत्तितादवस्थ्यात् । किश्च क्रियाजन्याऽदृष्टानभ्युपगमे मोक्षार्थिनां प्रवृत्तिरपि दुर्घटा स्यात् , कर्मक्षयार्थमेव तस्या उपपत्तेः । दुःखध्वंसस्य स्वत एव सम्भवेन तदर्थं तदनुपपत्तेः । चरमदुःखध्वंसत्वेन च न काम्यता, चरमदुःखमुत्पाद्य तवंसस्य तत्त्वज्ञानेनोत्पादने दुःखहेतौ प्रवृत्त्याऽऽपत्तेः । सिद्धोपरागेण सिद्धासि द्वविषयकेच्छाभ्युपगमे कृत्स्नकर्मक्षय

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158