Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 154
________________ अदृष्टसिद्धिवादः ] [ १४१ तव मते गौरवम् । न चाऽयोग्यत्वादेव तदप्रत्यक्षत्वमिति न तत्कल्पनम् , अयोग्यत्वस्य प्रतिबन्धकत्वे विश्रामात् । न च गुणलौकिकमानसत्वावच्छिन्नं प्रति जनकतावच्छेदकतया ज्ञानेच्छादिगतजातिविशेषस्यैव कल्पनान्न तत्कल्पनमिति पाच्यम् , निर्विकल्पादिगतज्ञानत्वादिना साङ्कर्यात् । तथा सुखदुःखादिवैचित्र्यनियामकस्याऽऽहाराऽनलादिवद्धर्मिग्राहक-- प्रमाणादेव पुद्गलरूपत्वं सिध्यति । आत्मतद्धर्मव्यतिरिक्तत्वे सति बाह्यकारणाधीयमानोपचयत्वात्परिणामित्वाच्च स्नेहाद्याहितबलघटवत् क्षीरादिवच्च पुद्गलरूपत्वमेवाऽदृष्टस्येत्यप्याहुः । परिणामित्वं च कर्मणः कर्मपरिमाणावच्छिन्नावगाहनाया नियतशरीरोपादानावच्छेदकत्वेन सिद्धयति । अत एवाऽऽद्यबालशरीरं शरीरान्तरपूर्वकं, शरीरत्वादिन्द्रियादिमवाद्वा.युवशरीरवदित्यनुमानादपि शरीररूपस्य कर्मणः सिद्धेस्तस्य पौद्गलिकत्वम् । न च जन्मान्तरीयशरीरेणार्थान्तरं, परिणामिशरीरान्तरपूर्वकत्वस्य साध्यत्वात्परिणामिनश्च व्यवधाना(त्यो)त् । अत एवौदारिकादिशरीरपरिणामिनः कर्मण औपश्लेषिकमुपादानत्वं गीयते । अथ शरीरत्वं न शरीरान्तरपूर्वकत्वव्याप्यमनवस्थाप्रसङ्गादिति चेत् ? न, वीजाङ्कुरस्थानी याया एतस्याअनवस्थाया अदोषत्वात् । न च वृद्धिमच्छरीरत्वस्योपाधेः सत्त्वादुक्तव्याप्त्यसिद्धिरिति शङ्कनीयम्, प्रत्यात्म कर्मशरीरयो/जाङ्कुरन्यायेन हेतुत्ववादेऽवस्थितस्यैवपरि.

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158