Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
१४० ]
[ वादमालायां
गुणरूपत्वे बन्धोदयादिविरोधी तरादिभेदस्याप्यनुपपत्तेः प्रकृतिरसादिभेदेन तद्वयवस्थानात् ।
किश्च स्वर्गादिजनका दृष्टस्य फलनाश्यत्वे प्रथमफललाभानन्तरमेव तद्विलयाऽपत्तिरन्यथा च तदनन्तत्वापत्तिः । न च प्रतियोगिताऽदृष्टनाशे जनकतया चरमफलस्य नाशहेतुत्वादयमदोषश्वरमत्वस्य जातित्वे तदवच्छिन्ननियामकस्य गवेषणीयत्वापत्तेः । फलान्तरप्रागभावासमानाधिकरणत्वरूपत्वे च प्रागभावस्य विशिष्याऽहेतुत्वे तेन तदनन्तत्वाऽ पत्त्यवारणात्तखे च तत एवाऽनतिप्रसङ्गे फलस्याऽदृष्टनाशकत्वे मानाभावाददृष्टाऽनन्तत्वापत्तेः । तस्माद् योगानुभावोपात्तविचित्रप्रकृतिप्रदेशकं कषायाऽध्यवसायविशेषोपनीतविचित्रस्थित्यनुभवं च कर्म पुद्गलरूपमेव प्रतिपत्तव्यम् । अत एव कर्मणः प्रकृत्याद्यात्मकत्वे मोदकदृष्टान्तं वर्णयन्ति समयविदः ।
,
अथ 'चैत्रशरीरं चैत्रविशेषगुणपूर्वकम् चैत्रभोग्यत्वाच्चन्दनादिवदित्यनुमानाददृष्टस्य गुणत्वसिद्धि' रिति चेत् न, चैत्रभोग्यत्वे मैत्रविशेषगुणपूर्वकत्वस्येव चैत्रविशेषगुणपूर्वकत्वस्यापि व्याप्तौ प्रमाणाभावाददृष्टद्वारकजन्मान्तरीयप्रयत्नेनाऽर्थान्तरप्रसङ्गाच्च । चैत्रभोग्यत्वावच्छिन्ने चैत्र विशेषगुणत्वेन साक्षाद्धेतुत्वं चाऽसिद्धमिति दिक् ।
किञ्चादृष्टस्य गुणत्वे तदप्रत्यक्षत्वाय मानस लौकिकप्रत्यक्षं प्रति तस्य तादात्म्येन प्रतिबन्धकत्वं कल्पनीयमिति

Page Navigation
1 ... 151 152 153 154 155 156 157 158