Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 152
________________ अदृष्टसिद्धिवादः । [ १३६ अस्माकं तत्र साक्षात्फलस्याऽदृष्टरूपस्याऽव्यभिचारात्परम्पराफलभेदस्य चाऽर्थसिद्धस्योपपत्तेः । कियाऽदृष्टस्य गुणरूपत्वे तत्र पक्वाऽपक्वादिभेदाऽभावाद्दानादिजन्याऽदृष्टात्तदानीमेव स्वर्गाद्यापत्तिः । न च स्वर्गीयशरीरादिविशेषकारणाभावान्न तदापत्तिः, तस्याप्यदृष्टहेतुकत्वेनाऽऽपत्तितादवस्थ्यात, तत्कालविशेषादनतिप्रसङ्गे च तस्यैव सर्वत्र कार्यनियामकत्वे एककारणपरिशेषाऽऽपत्तेः। . एतेन लब्धवृत्तिकत्वमपि निरस्तम् । तस्यापि सहकारिविशिष्टत्वकालविशेषविशिष्टत्वरूपविकल्पद्वयाऽनतिक्रमात् । न च तददृष्टजन्यफले तददृष्टप्राग्वय॑दृष्टत्वाऽवच्छिन्नाऽभावस्य हेतुत्वादनतिप्रसङ्ग इति वाच्यम्, एकभवेऽपि दानहिंसादिजन्यानां बहूनामदृष्टानामर्जनात् । वस्तुतः सयोगजीवव्यापारत्वेनैव कर्मबन्धत्वाऽवच्छिन्नहेतुत्वात्सयोगिजीवव्यापारक्षण. त्वस्य कर्मबन्धव्याप्यत्वात्तददृष्टप्रागवय॑दृष्टाऽभावस्य क्वाप्यसिद्धेः। फलावच्छिन्नप्राग्वय॑दृष्टाभावस्य हेतुत्वे न दोष इति चेत् ? न, ऐहिकाऽदृष्टभोगकालेऽप्यत्युग्रपुण्यपापफलदर्शनादायुःशरीरसुखदुखलाभाऽलाभकामक्रोधादितारतम्यनियामकनानाऽदृष्टानां युगपत्फलदर्शनेन तेषां मिथोऽविरोधाच्च । तथापि मनुष्यस्य स्वर्गसुखादिजनकाऽदृष्टानां विरोधित्वान्मनुजाऽदृष्टसत्त्वे न स्वर्गाऽऽपत्तिरिति चेत् ? न, अदृष्टस्य

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158