Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
१४२ ]
[ वादमालायां
माणभेदरूपाया वृद्धेः पक्षेऽपि सखेन तस्य साधनव्यापकत्वात् ।
I
अथ 'स्वभाव एवाऽभ्रादिविकारवच्छरीरादिवैचित्र्यनियामकोsस्तु, किमदृष्टकल्पनेने 'ति चेत् ? स किं वस्तुविशेषो वा अकारणता (वा) वस्तुधर्मो वा १ आद्ये तस्य मूर्त्तत्वे नामान्तरेण कर्मण एवाभ्युपगमप्रसङ्गोऽमूर्त्तत्वे चाऽऽकाशादिवत्तस्य शरीरादिपरिणामित्वानुपपत्तिः । द्वितीये चाऽकारणता यद्यहे - तुकत्वं तदा तस्य नियामकत्वे युगपदेवाऽशेपदेहोत्पादप्रसङ्गः, कारणाभावस्य समानत्वात् । यदि च तलः स्वार्थकत्वात्कारणपदस्य नियत्यन्यकारणपरत्वादकारणता नियतिकारणमात्रमुच्यते, तदा तन्मात्रजन्यत्वे शरीरादेरभ्रादिविकारवदाऽऽदिमत्प्रतिनियताऽऽकारत्वं न स्यात् । आदिम-प्रतिनियताssकारत्वादेव घटादिवच्छरीर। देरुपकरणसहितकतृ'निवर्त्यत्वेन कर्मजन्यत्वस्यैव सिद्धेः । तृतीयपक्षेऽपि वस्तुधर्मो यद्यमूर्त्त इष्यते तदा तस्य शरीरादिपरिणामनियामकत्व विरोधो, यदि च मूर्त्त इष्यते तदा कर्मणोऽपि पुद्गलास्तिकायपर्यायविशेषत्वेन वस्तुधर्मत्वात्सिद्धसाध्यतैवेति सर्वभवदातम् ॥ ६
अदृष्टसिद्धिवादः समाप्तः
तत्समाप्तौ च समाप्ता तृतीया चादमाला |

Page Navigation
1 ... 153 154 155 156 157 158