Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
१३८ }
[ वादम'लायां त्वेनेतरथा तु विशिष्टकर्मक्षयत्वेन काम्यता तु नाऽनुपपन्नेत्य. वसेयम् ।
किश्च महाप्रायश्चित्त धर्मसंन्यासादीनामन्ततस्तत्त्वेनैककालोत्पत्तिकानन्ताऽदृष्टध्वंसे हेतुत्वमेवोचितम् । तत्तद्ध्वंसातिरिक्तत्वेन व्यापारविशेषणे तत्तत्प्रायश्चित्ताद्यभावविशिष्टत्वेन कारणत्वे चाऽतिगौरवम् । न च समूहालम्बनदुःप्रणिधानाद्यनुरोधेन तत्तत्प्रायश्चित्ताधभावोऽवश्यं निवेश्य इति वाच्यम् , समूहालम्बनदुःप्रणिधानजन्यस्य समानविषयकप्रायश्चित्तनाश्यस्यातिरिक्तस्यैवाऽदृष्टस्य स्वीकारात् । अपि च न यथाबद्धमेव कर्म सवेद्यते, बन्धोत्तरमुत्कृष्टस्याऽपकृष्टस्य परिणामविशेषवशात्प्रकृत्यन्तरसक्रमेणाऽन्यादृशस्य च वेदनात् । अत एव हिंसादिफलेऽपि मिथो महदन्तरं तत्र तत्र प्रसिद्धम् । न चायं प्रकारो ध्वंसे सम्भवतीत्यवश्यं विचित्रमदृष्टमङ्गीकर्त्तव्यम् ।
[अदृष्टस्यात्मविशेषगुणत्वनिरासः] एतेन आत्मनो विशेषगुणरूपमप्यदृष्टंयत्परैरुपगम्यते, तदपि निरस्तं भवति, धर्मविशेषात् प्राक्तनपापकर्माऽपत्रपस्य प्राचीनपुण्योत्कर्षस्य सङ्क्रमजनितवलक्षण्यस्य चाऽदृष्टगुणत्वेऽसम्भवात्सूक्ष्मकर्म पुद्गलरूपाऽदृष्टपक्ष एव सर्वस्याऽस्यार्थस्य घटमानत्वात् । अथ 'भवतां तत्र क्रियायाः फलव्यभिचारवदस्माकमदृष्टव्यभिचारोऽपि न दोपाये' ति चेत् ? न,

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158