Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 149
________________ १३६ ] [ वादमालायां नीयभोगं वदाम इति न कोपि दोषः । चारित्रवीर्येण बहू नामव्यवस्थितकर्मणां प्रक्षयेण मोक्षोपपत्तेः । एतेन यदुच्छ खलैरुच्यते दानादीनामागमबोधितनियतस्वर्गादिफले स्वध्वंस एव व्यापारोऽस्तु, किमदृष्टकल्पनया ! न चैवं दानादेः प्रतिबन्धकत्वव्यवहारापत्तिः, संसर्गाभावत्वादिना कारणीभूताभावप्रतियोगित्वेनैव तद्वयवहारात् । न चैवं प्रायश्चित्तकीर्तनादिविशिष्टकर्मणोऽपि फलापत्तिस्तद्ध्वंसातिरिक्तध्वंसस्यैव व्यापारत्वात् । अस्तु वा प्रायश्चित्वाद्यभाववत्कर्मत्वेन हेतुत्वम् । इत्थं च प्रायश्चित्तादौ प्रवृत्त्यादिकं सूपपादम् । द्विष्टाभावोद्देशेन द्वेषयोनिप्रवृत्तेविरोधात् । न चैवं दत्तादत्तफलोद्देश्यकप्रायश्चित्ते कृतेऽदत्तफलादपि फलं न स्यात् , स्याद्वा दत्तफलादपि फलमिति वाच्यम् , तत्तत्प्रायश्चित्तविशिष्टाऽदत्तफलध्वंसातिरिक्तधंयस्याऽदत्तफलनिष्टोद्देश्यतया तदभावस्य वा निवेशात् । एतेन 'प्रायश्चित्तं न नरकादिप्रतिबन्धकम् , आशुविनाशित्वेन तदुत्पत्यवारकत्वात् , नापि तद्ध्वंसः, प्रायश्चित्तानन्तर कृतगोवधादितोऽपि नरकानुत्पत्त्यापत्तेः, तत्तत्प्रायश्चित्तप्राग्वर्तिगोवधादिजन्यनरके तत्तत्प्रायश्चित्तध्वंसस्य प्रतिबन्धकत्वे च प्रागजन्मकृतगोवधादितोऽपि नरकानुत्पत्त्यापत्तिः, तज्जन्मकृतत्वस्य प्राग्यर्तिगोवधविशेषणत्वे त्वप्रसिद्धिरित्यपास्तम् । अथ 'मिथ्याज्ञानवासनाया अदृष्टहे तुत्वं सम्भवति न तु दानादिध्वंसहेतुत्वं भोग

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158