Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 148
________________ अष्टसिद्धिवादः ] प्रयोज्यत्वात् । एतेन तत्क्षेत्रे तदा तदीयशस्योत्पत्त्यनुकूलशक्त्यभावादेव न शस्योत्पत्तिरित्यपास्तम् । शक्तिविघात - स्याऽपि तत्राऽदृष्टप्रयोज्यत्वात् । किञ्चैकजातीयेष्टाऽनिष्टसाधनसम्प्रयोगेऽपि पुरुषभेदेन [१३५ - सुखदुःखानु भवतारतम्यदर्शनात्तेषामदृष्टप्रयोज्यजातिव्याप्यजा त्यवच्छिन्नं प्रत्येव हेतुत्वाददृष्टविशेषसिद्धिः । न च भेषजवद्धातुसात्म्यादिद्वारकमेव तत्तारतम्यमिति वाच्यम्, ततः साक्षात्सुखादि - तौल्याद्धातुवैषम्यादेरुत्तरकालीनत्वात् । न च शरीरविशेषादेव सुखादिविशेषसिद्धिरिति शरीरविशेषाऽदर्शनेऽपि सर्वतोनुकूल वेदनीयोदये भोगविशेषदर्शनात् । तदिद मुक्तं भगवता भाष्यकृता जो तल्लाहणाणं फले विसेसो ग सो विणा हेडं । कज्जत्तणओ गोयम ! घडोव्व हेऊ अ से कम्मं ॥ति (वि० आ० भा० २०६८) ननु यदि क्रियामात्रजन्यमदृष्टं भवद्भिरभ्युपगम्यते तदा चरमशरीरिणामपि गृहस्थावस्थाजिंतबहुभव भोग्यानामवस्थानधौव्यात्संसारानुपरमः स्यादिति चेत् १ स्यादयं तेषां दोषो ये एकान्तत एकरूपं भोगेकनाश्यं च कर्माभ्युपगच्छेयुः । वयं तु सर्वं कर्म प्रदेशतो नियतभोगमनुभागतश्च भज १ - यः तुल्यसाधनानां फले विशेषः न स विना हेतुम् । कार्यत्वद् गौतम ! घट इत्र हेतुश्च तत्कर्म ॥ इति छाया ।

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158