________________
अष्टसिद्धिवादः ]
प्रयोज्यत्वात् । एतेन तत्क्षेत्रे तदा तदीयशस्योत्पत्त्यनुकूलशक्त्यभावादेव न शस्योत्पत्तिरित्यपास्तम् । शक्तिविघात - स्याऽपि तत्राऽदृष्टप्रयोज्यत्वात् ।
किञ्चैकजातीयेष्टाऽनिष्टसाधनसम्प्रयोगेऽपि पुरुषभेदेन
[१३५
-
सुखदुःखानु
भवतारतम्यदर्शनात्तेषामदृष्टप्रयोज्यजातिव्याप्यजा
त्यवच्छिन्नं प्रत्येव हेतुत्वाददृष्टविशेषसिद्धिः । न च भेषजवद्धातुसात्म्यादिद्वारकमेव तत्तारतम्यमिति वाच्यम्, ततः साक्षात्सुखादि - तौल्याद्धातुवैषम्यादेरुत्तरकालीनत्वात् । न च शरीरविशेषादेव सुखादिविशेषसिद्धिरिति शरीरविशेषाऽदर्शनेऽपि सर्वतोनुकूल वेदनीयोदये भोगविशेषदर्शनात् । तदिद मुक्तं भगवता भाष्यकृता
जो तल्लाहणाणं फले विसेसो ग सो विणा हेडं । कज्जत्तणओ गोयम ! घडोव्व हेऊ अ से कम्मं ॥ति (वि० आ० भा० २०६८)
ननु यदि क्रियामात्रजन्यमदृष्टं भवद्भिरभ्युपगम्यते तदा चरमशरीरिणामपि गृहस्थावस्थाजिंतबहुभव भोग्यानामवस्थानधौव्यात्संसारानुपरमः स्यादिति चेत् १ स्यादयं तेषां दोषो ये एकान्तत एकरूपं भोगेकनाश्यं च कर्माभ्युपगच्छेयुः । वयं तु सर्वं कर्म प्रदेशतो नियतभोगमनुभागतश्च भज
१ - यः तुल्यसाधनानां फले विशेषः न स विना हेतुम् । कार्यत्वद् गौतम ! घट इत्र हेतुश्च तत्कर्म ॥ इति छाया ।