Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 137
________________ १२४ ] [वादमालायां तृणनिरूपितकार्यतायाश्च वह्नित्वेन प्रथमतोग्रहेऽपि वह्निसामान्यतणसामान्यकार्यकारणभावोपयोगे तृणत्वेन व्यभिचार स्फूतौ शक्तिविशेषेणैव तृणे वह्निसामान्यहेतुताया ऊहाख्यप्रमाणेन परिच्छेदात् । न चेदेवं, दण्डघटायोरपि कार्यकारणभावो दुरुपपादः स्यात् , घटत्वस्य मृत्वस्वर्णत्वादिसंकीर्गतया जातित्वाऽसिद्धेः, तस्यैकत्ववृत्तित्वाभ्युपगमेऽपि दोषादेकत्वाऽग्रहे तदग्रहापत्तेः, नव्यमते एकत्वस्याप्येकत्वाच्च । न च कुलालस्वर्णकारादिजन्यतावच्छेदकमृत्त्वस्वर्णत्वादिव्याप्यनानाघटत्वाऽभ्युपगमेऽपि निस्तारो, दण्डत्वस्याऽपि तद्वदेव नानात्वेन व्यभिचारात् । यावद्दण्डभिन्नाऽवृत्तिजातित्वेनानुगतीकृत्य तन्निवेशे गौरवात् । विजातीयसंयोगव्यापारकत्वस्य च कारणान्तरघटितत्वेन तेन रूपेणाप्यहेतुत्वात् । न च भ्रमिप्रयोजकावयवसंयोगविशेषवत्त्वेनैव हेतुत्वमस्त्विति वाच्यम् , तद्विशेपस्यापि जातिरूपस्याऽसिद्धेर्नोदनात्वादिना साङ्कर्यादिति शक्तिविशेषेणैव दण्डादेर्घटादिसामान्यहेतुत्वमुचितमिति दिक् । उत्तानास्तु तत्तत्सम्बन्धान्यतमत्वेन सम्बन्धानां तृणाधन्यतमत्वेन च तृणादीनां हेतुत्वान्न शक्तिसिद्धिः । न घ तत्तदन्यतमत्वं तत्तदन्यत्वविशिष्टतदन्यत्वाऽवच्छिन्नप्रतियो. गिताको भेदस्तथा च विशेषणविशेष्यभावे नानाकार्यकार

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158