Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
अतिरिक्तशक्तिवादः ]
[ १२३
योगात् । तुणादिकं विनाऽरण्यादितोऽपि वनरुत्पादात् । न च वह्निनिष्टजातित्रयकल्पनाददोषः, तदपेक्षया तृणफूत्काराऽरणिनिर्मथन-मणितरणिकिरणसंयोगेष्वेकशक्तिकल्पनायां लाघवात् । सम्बन्धत्रयनिष्टैकजात्यङ्गीकारेच नोदनात्वादिना सङ्करप्रसङ्गः। यदि चान्वय-व्यतिरेकाभ्यां तृणादेरपि कारणत्वमिष्यते तदा तेषामप्येकशक्तिमत्वेन तदस्तु. तथापि जातित्रयकल्पनापेक्षया शक्तिद्वयकल्पनाया लघुत्वात् । तेष्वपि जात्यङ्गीकारे च मणित्वादीना सङ्करप्रसङ्ग इति।।
अथ तृणादौ वह्निकारणताऽनवच्छिन्नैवाऽस्तु किं शक्तिकल्पनया ? नहि 'कारणता किश्चिद्धर्मावच्छिन्नैवे' ति व्याप्तिरस्ति प्रमाणाऽभावात् । 'तन्तुत्वेन तन्तुः पटकारणं,' 'पटत्वेन पटस्तन्तुकार्यमिति प्रतीत्या तत्राऽवच्छेदकसिद्धावपि प्रकृते तदभावात् । 'शक्तिविशेषेण तृणं वह्निहेतुरि'ति प्रतीतेरसिद्धेः, शक्तेरतीन्द्रियत्वोपगमात् । अस्तु वा सर्वत्राऽपि कार्यता कारणता च निरवच्छिन्नैव । तन्तुः पटकारणमित्यादिको हि लोकानामनुभवो, न तु तन्तुत्वादिनापि । 'द्रव्यत्वेन न तन्तोः पटकारणत्वं किन्तु तन्तुत्वेने' त्यादिकाः प्रतीतयस्तु केवलं तांत्रिकाणामेवेति चेत् १ न, लोकरपि सामान्यविशेषोपयोगपरैर्वस्तुमात्रस्येव कारणत्वस्य कार्यत्वस्य चावच्छिन्नानवछिन्नस्यैवाऽनुभवात् । सप्तभङ्गया तत्सङ्कलनमात्रस्यैव शास्त्रार्थत्वात् । वह्निनिरूपितकारणतायास्तृणत्वेन

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158