Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
१२८ ]
[ वादमालायां नाशात्सर्वस्याप्यसंस्कृतत्वेन्येषामपि फलं न स्यात्, तदनाशे चाऽशुचिस्थानसंसृष्टतजलपानादपि फल स्यात् । एतेनाऽनेकजलादिनिष्टव्यापारकल्पने गौरवादेकात्मनिष्टव्यापारकल्पनमेवोचितमित्यपास्तम् । अनन्यगत्या जलादिगतनानाव्यापारकल्पनावश्यकत्वात् । 'अशुचिस्थानसंसर्गाद्यनवच्छिन्नसम्बन्धविशेषेणाऽदृष्टस्य नियामकत्वान्नानन्यगतिकत्वमि' ति चेत् ? न, तथाप्येकपुरुषीयविषचालनप्रतिबन्धोद्देश्यकप्रतिबन्धकमन्त्रेण साधारणविषचालकमन्त्रपाठजनिताऽदृष्टनाशाऽनाशाभ्यासर्वेषामेकस्य चाधिकृतस्य फलाऽनापत्त्यापत्तिभ्यां व्यापारनानात्वकल्पनध्रौव्यात् । ततत्पुरुषोद्देश्यकप्रतिबन्धकमन्त्राभावविशिष्टविलक्षणमन्त्रत्वेन तत्तत्पुरुषीयविषचालनादौ पृथक्कार णत्वकल्पने च गौरवात् ।
किश्च यत्र मणिविशेषस्पृष्टजलपानाद्विषचालनं तत्र शक्ति विना का गतिः १ न हि तत्रापि मणिविशेषाददृष्टमुत्पद्यते, सम्बन्धविशेषेण जलगतप्रयोक्तृनिष्टतदुत्पादाभ्युपगमे दाहप्रतिबन्धकस्याऽपि मण्यादिसमवधानजन्यस्य सम्बन्धविशेषेण काष्टादिगतस्याऽदृष्टस्यैव कल्पनापत्तेः। किञ्च यत्र योगीन्द्रपदरजःस्पर्शविशेषादृष्टकुष्टादिनाशकं तीर्थजलमुत्पन्नं तत्र शक्तिविशेषाभ्युपगमं विना न निर्वाहः । तत्स्पर्शध्वंसस्य तज्जलोपादानकजलान्तरेऽसंक्रमाद् ध्वंसेन भावव्यापारान्यथासिद्धावदृष्टसंस्कारादेरपि विलयाऽऽपत्तेश्च । अपि च सिद्धरस

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158