Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
अतिरिक्तशक्तिवादः ]
[ १२७ द्यारम्भकास्तु योग्यजलानारम्भकाः । शुक्लेतररूपवता शुक्लरूपवदनारम्भादित्यपरे । पृथिवीत्वादिना क्लुप्तकार्यकारणभावकनीलाद्यन्यतमसिद्धेर्घाणादौ नीलाधकतरनिश्चयस्यानुद्देश्यत्वान्नान वानुद्भूतत्वमित्यन्ये। शुक्लत्वव्याप्यमेकमेवाऽनुद्भतत्वं, चक्षुरादिरूपे भास्वरत्वादिजातो मानाभावाद्, वाय्वाद्याऽऽकृष्टचम्पकादिभागास्तु चम्पकानारम्भकाः शुक्ला एव रूपवैषम्येऽपि गन्धसम्भवादि'त्यपरे । 'एकत्वनिष्टमेवोद्भतत्वं विषयविशेषत्वमेव वा प्रत्यक्षप्रयोजक, रूपं तु सर्व समानमेवे' त्यन्ये इति । .
___ अपि चाभिमन्त्रितपयःपल्लवादौ विषचालनादिनियमार्थमपि शक्तिरावश्यकी । न च तत्र मन्त्रपाठतः पुरुष एवाऽऽदृष्टस्वीकारान्निर्वाहः, किश्चिदशीचाऽभावस्य क्वचित् प्रयोजकत्वादशौचेऽपि क्वचिदधिकारादशुचिपुरुषेऽपि ततोऽदृष्टोपपत्तेरिति वाच्यम् . पुरुषनिष्टस्याऽदृष्टस्य सम्बन्धविशेषेण जलादिनिष्टव्यापारस्यैव कल्पनौचित्यात् । किश्च मन्त्रपाठादिना पुरुष. निष्ठस्याऽदृष्टस्य स्वीकारे मन्त्रितजलस्याऽशुचिस्थानमोचनादिनाऽपि तत्फलाऽऽपत्तिः । न च ततस्तददृष्टनाशः कल्प. नीयो, व्यधिकरणस्य तस्य तदनाशकत्वात् । - किश्च नानापुरुषोद्देशेन मन्त्रितस्य साधारणजलस्य नानापुरुषेभ्यो विभज्य दत्तस्यैकेनाऽशुचिस्थाननिवेशेऽदृष्ट

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158