Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
१२६ ]
[ वादमालायां
किञ्च, नानापरमाणुनिष्पादितस्य बादरस्कन्धस्य नानारूपरसगन्धस्पर्शसमन्धितत्वात् क्वचिदेव कस्यचिदुद्भवानुद्भवार्थमवश्यं शक्तिविशेषः स्वीकर्तव्यो, नीलाद्यवयरेवनिलाद्यवयवी जन्यत इत्यत्र प्रमाणाऽभावात् । नीलादिपरमाणुभिरेव कदाचित्पीतादिजननात् । तत्र पाकादिना नियमतो रूपादिपरावृत्तेरवयविनीलादाववयवगतनीलाभावादेः प्रतिबन्धकत्वस्य पाकाऽजन्यावयविनीलादाववयवनीलादेविलक्षणनीलादौ विजातीयतेजःसंयोगादेहे तुत्वस्य च कल्पनामपेक्ष्योद्भूतनीलादौ शक्तिविशेषस्यैव हेतुत्वौचित्यात् । - एतेनेदं परेषां कल्पनाशतमपास्तम् । तथाहि, 'अबयवोद्भूतरूपादिकमेवावयव्युद्भूतरूपादौ तन्त्रम् , रसनाधारम्भकाः परमाणवो योग्यजलारम्भकाद्भिन्ना एवे' त्येके। 'अनुद्भूतत्वस्यैव जाति वाज्जन्यानुद्भूतरूपेऽनुद्भूतेतररूपाभावोऽववय विशुक्लादौ चावयवशुक्लादिकं हेतुः, इत्थं च न परमाणुभेदस्वीकारो न वा भर्जनकपालस्थवह्नावुद्भूतरूपतेजःप्रवेशादुद्भूतरूपानुपपत्तिरित्यन्ये । 'पृथिवीत्वादे रूपनिश्चयेऽपि नीलत्वादिना निश्चयाऽभावान्नीलादिविजातीयमेवानुद्भूतम् , इत्थं चैकमेवाऽनुद्भूतत्वं नीलत्वादिव्यापकमु
द्भूतत्वमेव वैकं, अनुभूतत्वं तु तदभावः । उद्भूतान्यसमवेतत्वादेव हि घटादिना चक्षुराकाशसंयोगादिकं न चाक्षपं, अवयव्यनुद्भूताऽसमवायिहेतुतावच्छेदिका जातिर्वास्तु, रसना

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158