Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 144
________________ अतिरिक्तशक्तिवादः ] [ १३१ अत एव साधुत्वासाधुत्वविवेचनाभावेऽपि पात्रभेदाद्दानफलभेदस्तत्र व्यवतिष्ठते । आलम्बनमतन्त्रं भावभेद एव फल मेदहेतुरिति तु नयान्तरमतमिति गुरुतत्वविनिश्चये विवेचितमस्माभिः ।। यत्तु प्रतिष्ठाविधिना प्रतिमादौ देवतासन्निधिरहङ्कारममकाररूपः क्रियते, विशेषदर्शनेऽपि स्वसादृश्यदर्शिनश्चित्रादाविवाऽऽहाऽऽरोपसम्भवाद्, ज्ञानस्य नाशेऽपि संस्कारसत्त्वाच्च न पूजाफलाऽनुपपत्तिः, अस्पृश्यस्पर्शादिना च तन्नाश इति परेषां मतं तदत्यन्तमसम्बन्धम् । वीतरागदेवस्थले इत्थं वक्तुमशक्यत्वात् सरागे देवताबुद्धेरेव च मिथ्यात्वादसर्वज्ञमरागदेवानां व्यासङ्गदशायां व्यवहितनानादेशेषु प्रतिष्ठाकर्मबाहुल्ये चाहङ्क रममकाराऽनुपपत्तेः संस्कारनाशेऽपूज्यत्वापत्तेः, तज्ज्ञानसंस्कारयोरननुगतयोः पूजाफलप्रयोजकत्वे गौरवाच्चेति । न च भवतामपि व्यासङ्गवशात् प्रतिष्ठितत्वज्ञानाभावे पूजाफलानुपपत्तिरिति वाच्यम्, विशेषफलाभावेऽपि प्रीत्यादिना तदा सामान्यफलानपायस्योक्तत्वाद् | यैस्तु यथार्थप्रतिष्ठितत्वप्रत्यभिज्ञानं पूजाफलसामान्य एव प्रयोजकमिष्यते; तेषामयमपि दोष एव । यत्पुनरुच्यते चिन्तामणिकृता - 'प्रतिष्ठितं पूजयेदि - तिविधिवाक्येन प्रतिष्ठायाः कारणत्वं न बोध्यते, किन्तु भूतार्थेक्तानुशासनादतीतप्रतिष्ठे पूज्यत्वं बोध्यते, तथा च

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158