Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 145
________________ १३२ ] [ वादम लाथां प्रतिष्ठाध्वंसः प्रतिष्ठाकालीनयावदस्पृश्यस्पर्शादिप्रतियोगिकानादिसंसर्गाभावविशिष्ठः पूज्यत्वप्रयोजक इति तदप्यविचारि(त) रमणीयम् । प्रतिष्ठायाः क्रियेच्छारूपत्वेन तवंसस्य प्रतिमानिष्ठत्वाभावात् । क्तप्रत्ययस्थलेऽपि 'प्रोक्षिता व्रीहय' इत्यादौ ध्वंसव्यापारकत्वाऽकल्पनात्, कालान्तरभाविनि फले चिरनष्टस्य कारणस्य भावव्यापारकत्वनियमाच्च । अन्यथाऽपूर्वोच्छेदापत्तेः। किच किञ्चिदवयवनाशेन प्रतिमान्तरोत्पत्तौ तत्र प्रतिष्ठाध्वंसानभ्युपगमात् पूज्यतानापत्तिरुक्तसंसर्गाभावानां बहूनामवच्छेदकत्वनिवेशे गौरवात् , प्रतिष्ठायाः शक्तिविशेषे तन्नाशेऽस्पृश्यस्पर्शादीनां चैकशक्तिमत्त्वेन हेतुत्वे लाघवात् । एतेन प्रागभावाऽसत्त्वे क्वचित् तत्प्रतिष्ठाध्वंसमात्रं क्वचित्तत्तच्चाण्डालस्पर्शध्वंसविरहविशिष्टं तत्पूजाफलप्रयोजकमि' ति नव्यमतमप्यपास्तमिति दिक् ।।५। [शक्तिवादः समाप्तः]

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158