Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
१३० ]
[ वादमालाया
यत्तु "अकृतप्रतिष्ठे प्रतिमादौ पूजाफलाऽभावात्प्रति. ष्ठादेः क्षणिकत्वात्तदाऽऽहिता शक्तिश्चाण्डालादिस्पर्शनाश्या पूजाफलप्रयोजिका स्वीकार्या । न च यजमानगताऽदृष्टं तदाहितं तथा, चाण्डालादिस्पर्शन व्यधिकरणेन तन्नाशाऽयोगात् , यजमानस्य तददृष्टक्षये पूज्यताऽनापत्तेश्चेति मीमांसका नैयायिकानाक्षिपन्ति तत्र पुनरस्माकमाचार्याणां न स्वारस्यम् । प्रतिष्ठाविधिना मुख्यदेवतास्वरूपालम्बनस्य निजभावस्य स्वात्मन्येव व्यवस्थापनात्प्रतिमायां स एवायमि'त्यभेदोपचारस्यैव पूज्यताप्रयोजकत्वात् । प्रतिमायां वर्द्धमानत्वाद्याहार्याऽऽरोपजनकेष्टसाधनताज्ञानविषयताऽवच्छेदकत्वेन. व प्रतिष्ठाया उपयोगात् ।
अनादिमत्यां हि प्रतिमायां सर्वस्यामेव भगवदभेदाध्यारोप इष्टसाधनम्, आदिमत्यां तु प्रतिष्ठितायामेवेति ततः प्रतिष्ठाऽऽहितशक्ति कल्पनमनतिप्रयोजनमित्यापातदर्शिनः । अत्रेदमवधेयम् , यद्यपि प्रतिमायां प्रतिष्ठितत्वज्ञान प्रतिष्ठाविधिप्रतिसन्धानोत्थापितवचनादरभगवद्बहुमानाऽहितसमापत्तिद्वारा विशिष्टफलप्रयोजकम् । अत एव मूलोत्तरगुणसहस्रसमेतसाधुकृतप्रतिष्ठेवोत्सर्गतःप्रमाणम्, प्रतिष्ठोत्कर्षस्य समापत्त्युत्कर्षकत्वात् । तथापि वस्तुतः प्रतिष्ठितायां प्रतिमायां भगवदारोपस्तत्पूजनं वा सामान्यफलं नातिक्रामतीति तनियामकशक्तिसिद्धिः । विषयभेदात्फलभेद इति व्यवहारनयसाम्राज्यात् ।

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158