Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 142
________________ अतिरिक्तशक्तिवादः ] [ १२६ } स्पर्शाल्लोहादौ तपनीयपरिणामः शक्तिविशेषनिर्वाह्य एव सिद्धरसस्पर्शध्वंस विशिष्टलोहे तपनीयारम्भस्य त्वया वक्तुमशक्यस्वात् । लोहस्यांत्यावयवित्वात्तत्र लोहनाशतपनीयावयचाऽऽगमनकल्पनं तु नानुभव युक्त्यनुरोधि । अस्माकं तु शक्तिवैचित्र्यान काप्यनुपपत्तिः सुवर्णाऽभिन्नद्रव्यशक्त्या स्थितस्यैव लोहस्य सिद्धरसस्पर्शाहितशक्त्या गुरुत्वरूपविशेषाद्यात्मकतपनीयपरिणामोत्पादकत्वाऽविरोधात् । न चैवं कृतस्यैव करणापत्तिः, कथंचित्तस्य दृष्टेष्टत्वात् । अत एव घटोपि रूपितया पूर्वकृत एव, संस्थानजलाहरणशक्तिभ्यां च पूर्वमकृतः, रूपित्व संस्थानशक्तिसमुदायेन च कृताऽकृतः । आद्यसमयावच्छेदेन च क्रियमाणः क्रियते । घटत्वेन पूर्व कृतः, पटत्वेन पूर्वमकृतो, घटत्वपटत्वाभ्यां पूर्व कृताकृतः । क्रियमाणश्चोत्पत्तिसमये पटतया न क्रियत इत्यस्माकं कृताऽकृतत्वसिद्धान्तस्तथा च भाष्यम् "रुवित्ति कीरह कओ, कुम्भो संठाणसत्तिओ अकओ । दोहिवि कथाकओ सो । तस्समयं कजमाणो अ । पुव्वकओ उ घडतया । परपज्जा एहिं तदुभयेहिं च । कज्जंतो य पडतया ण कीरए सव्वा कुम्भो । ति || [ विशेषावश्यके - ४०६८-४८११] १- रूपीति क्रियते कृतः कुम्भःसंस्थानशक्तित अकृतः । द्वाभ्यामपि कृताकृतः स तत्समयं क्रियमाण इति ।। पूर्वकृतस्तु घटतया परपर्यायैः तदुभयैश्च । क्रियमाणश्च पटतया नक्रियते सर्वथा कुम्मः ॥ [ इति सं०]

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158