Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 138
________________ अतिरिक्तशक्तिवादः ] [ १२५ णभावप्रसङ्ग इति वाच्यम् , एकस्यैव भेदस्य तादृशनानाप्रतियोगिताकत्वेन परिचितस्याऽखण्डस्य स्वरूपतो निवेशादित्याहुः । तदसदित्थं सति सर्वत्राऽपि भेदविशेषेणैव कार्यकारणभावसम्भवे कुत्राऽपि तदवच्छेदकतया जात्यसिद्धिप्रसङ्गाद् भेदविशेषेण बुद्धिविशेषेण वा हेतुत्वमित्यविनिगमाच्छक्तिविशेषस्यैवाऽवच्छेदकत्वेन कल्पनौचित्याच्च । किश्च, बीह्यादिजनननियामकोऽपि व्यापारविशेषः शक्त्याख्योऽवश्यं कल्पनीयः । अन्यथा ब्रीह्यादिवापे व्रीह्यादीनामाऽपरमाण्वन्तभङ्गे व्रीह्यारम्भकपरमाणुभित्रीहय एव जन्यन्त इति नियमो न स्यात्तैरपि कदाचिद्यवाद्यारम्भात् । न च पाकजविलक्षणरूपरसादिविशिष्टपरमाणूनामेव यवाद्या. रम्भकत्वान्नेयमाऽऽपत्तिरिति वाच्यम् , पाकजविलक्षणरूपरसादीनां बहूनां जनकतावच्छेदकत्वादिकल्पनापेक्षयैकशक्तिकल्पनस्यैव न्याय्यत्वात् । किञ्च, तव मते यत्र पाकजा न विशेषास्तत्र जलादौं क्वचिदुद्भूतरूपादिकं क्वचिन्नेत्यत्र शक्ति विना किं नियामकम् ? तव शक्तिविशेषप्रयोजकोऽदृष्टविशेष एव, ममोद्भः तरूपादिनियामक इति चेत् १ न, मम शक्तिविशेषानुकूलशक्तेरेव शक्तिविशेषप्रयोजकत्वात् । कारणपरंपरानवस्थावच्छक्तिपरंपराऽनवस्थाया अदोषत्वात् , अदृष्टे पापपुण्यरूपे साङ्कर्यादनुगतविशेषाऽसम्भवाच्च ।

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158