Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 135
________________ ५२२ ] [ वादमालायां न तदा दाहोत्पत्तिः । प्रतिबन्धकापगमे तु दाहव्यक्तिः स्फुटेवेति व्यक्तं स्याद्वादरत्नाकरे । नन्वेवं विनश्यदवस्थयाऽपि दाहशक्त्या प्रतिबन्धकदशायां दाहजननाऽऽपत्तिः, कारणस्य कार्यप्राक्कालसत्ताया एवाऽपेक्षितत्वादिति चेत् ? न, कार्यसहभावेनैव तस्या हेतुत्वात् । न च तथापि क्षणिकत्वाऽऽपत्तिः, पर्यायार्थतः क्वचित क्षणिकताया अपीष्टत्वात् । न च शक्तिधाराऽऽपत्तिरेकशक्तिनाश एवाऽपरशक्तिजननादिति बोध्यम् । __ अन्ये त्याहुः-प्रथमं वलयादिकारणजन्या वयादिनिष्टा शक्तिः प्रतिबन्धकेन च तस्या विनाशः, उत्तेजकेन पुनस्तदुत्पत्तिः । न च शक्तिहेत्वननुगमः, शक्त्यनुकूलशक्तिमत्त्वेना ऽनुगमादिति । अस्मिन् मते उत्तेजकेन मण्यादेः शक्त्यनाशे उत्तेजकजनितदाहशक्तेमण्यादिना नाशादुत्तेजकसत्वेपि दाहा. ऽनापत्तिः । उत्तेजकजन्तिदाहशक्तेमण्याद्यनाश्यत्वे चोत्तेजका. पसारणदशायामपि दाहापत्तिः । उत्तेजकेन मण्यादेः शक्तिनाशेऽप्येतद्दोषतादवस्थ्यमेवोत्तेजकनाशिताया मण्यादिशक्तेः पुनरनुत्पादादुत्तेजकाऽभावस्य तद्धेतुत्वे चाभावकारणत्वप्रसङ्गो, मण्यादेरेव तदुत्पादकत्वे च वन्यादेरेव दाहशक्तिहे. तुत्वमुचितमित्याकरपक्ष एवं ज्यायानिति बहुतरमूहनीयम् । अपि च तृणारणिमणिषु वह्निजनकतावच्छेदकतया शक्तिसिद्धिदुवारा । तृणवादिना वह्नित्वावछिन्नहेतुत्वाऽ

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158