Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 133
________________ १२० ] [वादमालायां विस्तरः । नचैवं हिंसादिदोषभेदेऽपीन्द्रियभेदनियामकत्वं विलीनमिति वाच्यम्, इन्द्रियघटितप्राणवियोगरूषायां हिंसायामिन्द्रियस्यापिप्रवेशादितिदिक् ।।४ । [इन्द्रियवादः समाप्तः) ५ अतिरिक्तशक्तिपदार्थवादः। द्रव्यादयः पडेव पदार्था इति वैशेषिकाणां पदार्थविभागोऽनुपपन्नः, शक्तेरप्येवं पदार्थान्तरत्वात् । तथा हि, यादृशादेव करतलानलसंयोगाद्दाहो जायते, सति मण्यादौ प्रतिबन्धके तादृशादेव न जायत इति मण्यादिनाश्यं वहिनिष्टं किञ्चिदतीन्द्रियं दाहानुकूलं स्वीकर्त्तव्यं, सेव शक्तिः । न च मण्याद्यभावानामपि दाहहेतुत्वादेव तदा दाहानुत्पत्तिः, नचाऽभावस्य न कारणत्वं, कार्यत्वस्येव कारमत्वस्यापि भावत्वाऽव्याप्यत्वादिति वाच्यम् , उत्तेजके सत्यपि तत्र दाहाऽनाऽऽपत्तेः । नचोत्तेजकाभावविशिष्टमण्याद्यभावानां हेतुत्वाददोषः, एकोत्तेजकसत्त्वेप्यपरोत्तेजकाऽभावसत्वेन तदोषाऽनुद्धारात् , उत्तेजकत्वस्य च शक्त्यनभ्युपगमे एकस्य दुर्वचत्वेन तदवच्छिन्नाऽभावस्य निवेशयितुम शक्यत्वात् । तत्तदुत्तेजकाभावकूटनिवेशे च परस्परं विशेषणविशेष्यभावे विनिगमनाविरहान्नानाकार्यकारणभावकल्पने गौरवात् । दाहत्वावच्छिन्ने विलक्षणशक्तिमत्वेन हेतुत्वकल्पनाया एवोचितत्वात् ।

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158