Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 132
________________ [ ११६ इन्द्रियवादः ] वह नाडीप्रयत्नद्वारा श्रोत्रमनोयोगस्योत्पादनाऽयोगादसर्वज्ञरस्यां नाड्यां मनो विद्यते संयोक्ष्यते चानेनेन्द्रियेणेति प्रत्ये तुमशक्यत्वात् । कथं चैवमादरेण रूपादिकं पश्यतो वेगवत्तरमहामेघसङ्घट्टजन्मनो झनझनाशब्दस्य झटित्येव साक्षात्कारः ? उपयोगस्य नियामकत्वे तु न किञ्चिदनुपपन्नं, चलवति विषये उपयोगस्य सद्य एव सम्भवात् । " अत्रोपयोगमाश्रित्य सर्वेऽपि जीवा एकेन्द्रिया, एकस्मिन् काले एकोपयोगवच्चात् शेषेन्द्रियापेक्षया चैकेन्द्रियादिभेदः । अथवा लब्धीन्द्रियापेक्षयापि सर्वेषां पञ्चेन्द्रियत्वमेव, बकुलादीनामपि कामिनीवदनार्पितमदिरागण्डूषादिना पुष्पपल्लवादिदर्शनात् । तस्य ज्ञानविशेषाऽऽहितप्रीतिविशेषाऽऽहतेष्टपुद्गलनिमित्तकत्वात् । सुप्तेऽपि कुम्भकारे कुम्भनिवृत्तिशक्त्या कुम्भकारत्ववद् बकुलादौ लब्ध्येन्द्रियपञ्चकसद्भावेऽपि पञ्चेन्द्रियत्वव्यपदेशो निवृत्यादिद्रव्येन्द्रियसम्बन्धाऽभावान्न भवतीति भाष्यसम्प्रदायः । अत्र च निवृत्युपकरणेन्द्रियसमुदायो न पञ्चेन्द्रियत्वव्यपदेशनिबन्धनमुपहतनयनादीनामपि तद्वयपदेशात्, किन्तु पञ्चेन्द्रियजातिनामकर्मविपाकोदय एवेत्यत्र तात्पर्यमत एव जातिनाम्नो नेन्द्रियपर्याप्त्यान्यथासिद्धिः । निर्माणाङ्गोपाङ्गनामारचितनिष्पादितबाह्यनिवृत्युपग्रहेण तस्याः प्रतिनियतपूर्णेन्द्रियनिष्पादकत्वेप्येकेन्द्रियादिव्यपदेशभेदस्य जातिनामभेदनिमित्तकत्वादित्यन्यत्र ·

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158