Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 129
________________ ११६ ] [ वादमालायां त्वङ्मनोयोगस्य ज्ञानमात्राहेतुत्वेऽपि ज्ञानाऽसमानाधिकरणज्ञानकारणमनःसंयोगाश्रयत्वमिन्द्रियत्वं, त्वक्त्वस्य जातित्वावङ्मनोयोग एव ज्ञानहेतुर्न तु शरीरमनोयोगः, शरीरत्वस्योपाधित्वादिति शरीरे नाऽतिव्याप्तिः । यदि च समवायेन चैत्रीयमनोयोगस्य शरीरनिष्टस्यावच्छेदकतया चैत्रीयज्ञानहेतुत्वं तदा ज्ञानसमानाधिकरणज्ञानकारणसंयोगाऽनाश्रयवृत्तिमनोवृत्तिज्ञानकारणसंयोगाश्रयत्वं तत् । आत्मशरीरयोरिणाय प्राथमिकं वृत्त्यंत संयोगविशेषणम् । शरीरात्ममनसां ज्ञानसमानाधिकरणज्ञानकरणसंयोगाश्रयत्वात् शरीरमनोयोगात्ममनोयोगयोर्न तदाश्रयवृत्तित्वमित्याऽऽत्मशरीरयोव्यु दासः। शरीरतदवयवनाडयादिनाऽऽत्मसंयोग एव चेष्टावदात्मसंयोगत्वेन हेतुरतो न स्वमवहनाडीमनोयोगमादाय तन्नाड्यामतिव्याप्तिः । चक्षुर्वटादिसंयोगमादाय घटादावतिव्याप्तेर्वारणाय 'मनोवृत्ती' ति । मनोघटसंयोगादिकमादायातिव्याप्तिवारणार्थ 'ज्ञानकारणे'ति । शरीरावच्छेदेन प्राणमनःसंयोगत्वेन न हेतुत्वं, किन्तु शरीरप्राणसंयोगत्वेनैवेति न प्राणेऽतिव्याप्तिरिति । तदेतनिजगृहपरिभाषामात्रम् । इन्द्रियवर्गणादिजन्यतावच्छेदकत्वेन सिद्धस्य प्रकृष्टज्ञानकारणत्वाऽभिव्यंग्यस्य द्रव्यनिष्टस्येन्द्रियत्वस्य प्राणादाविव मनस्यवृत्तित्वादन्यथा द्वीन्द्रियादिवधे त्रीन्द्रियादिवधजन्यदोषप्रसङ्गात् । न चैकेन्द्रियादि

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158