________________
११६ ]
[ वादमालायां त्वङ्मनोयोगस्य ज्ञानमात्राहेतुत्वेऽपि ज्ञानाऽसमानाधिकरणज्ञानकारणमनःसंयोगाश्रयत्वमिन्द्रियत्वं, त्वक्त्वस्य जातित्वावङ्मनोयोग एव ज्ञानहेतुर्न तु शरीरमनोयोगः, शरीरत्वस्योपाधित्वादिति शरीरे नाऽतिव्याप्तिः । यदि च समवायेन चैत्रीयमनोयोगस्य शरीरनिष्टस्यावच्छेदकतया चैत्रीयज्ञानहेतुत्वं तदा ज्ञानसमानाधिकरणज्ञानकारणसंयोगाऽनाश्रयवृत्तिमनोवृत्तिज्ञानकारणसंयोगाश्रयत्वं तत् । आत्मशरीरयोरिणाय प्राथमिकं वृत्त्यंत संयोगविशेषणम् । शरीरात्ममनसां ज्ञानसमानाधिकरणज्ञानकरणसंयोगाश्रयत्वात् शरीरमनोयोगात्ममनोयोगयोर्न तदाश्रयवृत्तित्वमित्याऽऽत्मशरीरयोव्यु दासः। शरीरतदवयवनाडयादिनाऽऽत्मसंयोग एव चेष्टावदात्मसंयोगत्वेन हेतुरतो न स्वमवहनाडीमनोयोगमादाय तन्नाड्यामतिव्याप्तिः । चक्षुर्वटादिसंयोगमादाय घटादावतिव्याप्तेर्वारणाय 'मनोवृत्ती' ति । मनोघटसंयोगादिकमादायातिव्याप्तिवारणार्थ 'ज्ञानकारणे'ति । शरीरावच्छेदेन प्राणमनःसंयोगत्वेन न हेतुत्वं, किन्तु शरीरप्राणसंयोगत्वेनैवेति न प्राणेऽतिव्याप्तिरिति ।
तदेतनिजगृहपरिभाषामात्रम् । इन्द्रियवर्गणादिजन्यतावच्छेदकत्वेन सिद्धस्य प्रकृष्टज्ञानकारणत्वाऽभिव्यंग्यस्य द्रव्यनिष्टस्येन्द्रियत्वस्य प्राणादाविव मनस्यवृत्तित्वादन्यथा द्वीन्द्रियादिवधे त्रीन्द्रियादिवधजन्यदोषप्रसङ्गात् । न चैकेन्द्रियादि