________________
इन्द्रियवादः ]
[ ११५ नाद्युत्पत्तिकाले ज्ञानमात्रहेतोस्त्वङ्मनोयोगस्य सत्वे कथं न त्वाचोत्पत्तिः, आयुष्मता रसनमनोयोगादेस्त्वाचप्रतिबन्ध. कत्वकल्पने महागौरवावाचत्वावच्छिन्ने विजातीयत्वङ्मनोयोगत्वेन पृथकारणत्वावश्यकत्वात् । न च त्वाचत्वावच्छिन्नं प्रति त्वाचेतरसामग्रीत्वेनैव प्रतिबन्धकत्वादनतिप्रसङ्गः, त्वाचेतरसामग्या विशिष्य विश्रामात् । न च रसनाधवच्छेदेन त्वचो विषयेण समं विलक्षण संयोगस्यैवाऽनुपगमात्त्वङ्मनोयोगस्य त्वाचं प्रति विशिष्य हेतुत्वाऽकल्पनमिति वाच्यम् , रसनाद्यवच्छेदेनापि शीतलजलस्पर्शानुभवादीर्घशष्कुल्यादौ रासनकालेऽपि त्वग्विषयसम्बन्धाऽबाधाच्च ।
अस्तु वा परात्मादेः पराप्रत्यक्षत्वाय विजातीयात्ममनोयोगत्वेनाऽऽत्ममानसे हेतुताया अवश्यवक्तव्यत्वात्तदेव वैजात्यं जन्यज्ञानसामान्याऽसमवायिकारणताऽवच्छेदकमिति तादृशसंयोगाऽभावादेव सुषुप्तौ ज्ञानानुत्पादः । तदा तादृशसंयोगे मानाभावाददृष्टादेव श्वास-प्रश्वासादिसन्तानोपपत्तौ जीवनयत्नाऽनुपगमात्तदनुरोधेनाऽपि तदऽकल्पनात् । न च यत्र त्वक्रियया त्वङ्मनःसंयोगनाशे पुरीतक्रियया पुरीतन्मनःसंयोगरूपा सुषुप्तिः सम्पद्यते, तत्र प्राक्तनात्ममनोयोगोऽस्तीति वाच्यम् , सर्वत्र मनःक्रिययैव सुषुप्तिस्वीकारान्नाडीतदवयवादिक्रियाकल्पने गौरवादिति ।