________________
११४ ]
[ वादमालायां
रूप योग्यत्वात्, अन्यथा सुषुप्तिकाले ज्ञानोत्पच्यापत्तेः । अथ तत्काले चाक्षुपादिज्ञानानुत्पादश्चक्षुरा देर्विषयेण मनसा च संयोगाऽभावात्, अनुमित्याद्यनुत्पत्तिश्च व्याप्तिज्ञानाद्यभावात् । न च सुषुप्त्यनुकूलमनः क्रियया मनःसंयोगनाशकाले उत्पन्नेन परामर्शेन सुषुप्तिसमकालोत्पतिकमनोयोगसहकृतेन सुषुप्ति द्वितीयक्षणेऽनुमितिरुत्पद्यतामिति वाच्यम्, असमवायिनः कार्यसहभावेन हेतुत्वान्मनोयोगनाशकाले परामर्शोत्पादाऽसम्भवादन्यथा सुषुप्तिकाले प्राक्तनत्वमनोयोगात्तवापि मसृणतूलिकादिसन्निकर्षेण त्वाचप्रसङ्गात् । तत्सामग्रीभूतव्याप्तिस्मृत्यादेः फलैककल्प्यत्वेन तत्काले परामर्शोत्पत्तौ मानाभावाद्वेति चेत् न, तत्काले आत्मादिमान सोत्पत्तेर्विना त्वमनोयोगहेतुत्वं दुर्वारत्वादिति" । मैवं आत्मनो विशेषगुणोपधानेनैव मानेन तदा विशेषगुणाभावेन तत्प्रत्यक्षाभावात्तत्तद्गुणानां विषयतया तद्भानहेतुत्वात् । सविषयकप्रकारकात्ममानसत्वस्यैव मनोयोगादिकार्यतावच्छेदकत्वाद्वा । यदि चैवमतिगौरवम्, तदा चर्ममनोयोग एव जन्यज्ञानमात्र हेतुरस्तु त्वमनोयोगस्य रासनादिकालेऽनुपगमात् ।
चर्मत्वं तैजसचर्मत्वादिसाधारणं न जातिरिति चेत् ? तथापि मानसत्वावच्छिन्न एव त्वमनोयोगो हेतुर्न तु जन्यज्ञानत्वावच्छिन्ने । न चैवं त्वाचत्वावच्छिन्नं प्रति पृथकारणत्वे गौरवं प्रामाणिकत्वेन तस्याऽदोपत्वात् । अन्यथा रास -