________________
इन्द्रियवादः]
[ ११३
त्पत्तेः ज्ञानत्वव्याप्यधर्मावच्छिन्नकारणत्वमिति चेत् १ न, स्मृतित्वावच्छिन्नहेतावनुभवेऽतिव्याप्तेः । अनुभवत्वव्याप्यधर्मावच्छिचहेतुत्वमिति चेद ? न, अनुमितित्वाद्यचच्छिमहेताचनुमानादावतिव्याप्तेः । प्रत्यक्षत्वव्याप्यधर्मावच्छिमहेतुत्वमिति चेत् ? न, अन्धकारेतरविषयकाञ्जनाद्यसंस्कृतनयननरचाक्षुषसाक्षात्कारत्वावच्छिन्नहेताबालोकेऽतिव्याप्तेरिति चेत?
अत्र ब्रमः । मतिज्ञानप्रत्यक्षत्वसाक्षाद्वयाप्यधर्मावच्छिन्नहेतुत्वमेवेन्द्रियलक्षणम् । अस्ति हि चक्षुरादीनों चक्षुराद्यवग्रहादिसाधारणमतिज्ञानप्रत्यक्षत्वसाक्षायाप्यचाक्षुषत्वाधवच्छिन्नहेतुत्वम् । मनसस्तु यद्यपि मनोऽवग्रहादिसाधारणमतिज्ञानप्रत्यक्षत्वसाक्षाव्याप्यमानसत्वावच्छिन्नं प्रति हेतुत्वमस्ति तथापि व्यक्तानुमानादिसाधारणदीर्घकालिकसंज्ञात्वावच्छिन्नं प्रत्यपि हेतुत्वात्तत्र नोइन्द्रियत्वप्रवादः । तथा च स्पर्शनादीनि पञ्चैवेन्द्रियाणीति जैनी परिभाषा।
नैयायिकास्तु मनःसहितानि तानि षडिन्द्रियाण्याहुः । इन्द्रियत्वं च तेषां स्मृत्यजनकज्ञानजनकमनःसंयोगाश्रयत्वम् । स्मृत्यजनकत्वमत्र स्मृतिस्वरूपाऽयोग्यत्वम् । मन:संयोगश्च मनोवृत्तिः संयोगो, नातः स्मृत्यनुपधायकप्रत्यक्षाधुपधायकमनोयोगवत्यात्मादावतिप्रसङ्गः, न च मनाप्रतियोगिकसंयोगविरहिणि मनस्यव्याप्तिः। ननु "त्वगिन्द्रियाऽन्याप्तिः, त्वङ्मनोयोगस्य जन्यज्ञानमात्रहेतुत्वेन स्मृतिस्व