________________
११२ ]
[ वाद मालाव ४-वागादीनामिन्द्रियत्वनिराकरणवादः।
स्पर्शनरसन-प्राण-चक्षुःश्रोत्रवाक्-पाणि पाद-पायपस्थमनोलक्षणान्येकादशेन्द्रियाणीति सांख्याः । तन्न, वागादीनामिन्द्रियत्वे प्रमाणाभावात् । न च तेषामपि वचादानविहरणोत्मर्गानन्द-संकल्प-व्यापारकाणामात्मनः क्रियाजनने करणत्वेनोपकारकत्वात् स्पर्शनादिवदिन्द्रियत्वमव्याहतमिति वाच्यम् , आत्मनो विज्ञानोत्पत्तो प्रकृष्टोपकारकस्यैवेन्द्रियत्वात् । यो काञ्चनक्रियामुपादाय करणत्वेनेन्द्रियत्वाभ्युपगमे च भ्र दरादेरप्युत्क्षेपादिकरणत्वेनेन्द्रियत्वप्रसङ्गात् । किश्च, इन्द्रियाणां स्वविषयनियतत्वान्नान्येन्द्रियकार्यमन्यदिन्द्रियं कर्तु मलम् । श्रोत्रादीनां चक्षुरूपलभ्यरूपावलोकनाद्यसमर्थत्वात् । यस्तु रसाधुपलम्भे शीतस्पर्शादरप्युपलम्भः, स सर्व व्यापित्वात्स्पर्शनेन्द्रियजनित एवेति न दोषः । पाण्यादीनां तु तच्छेदेऽपि तत्कार्यस्याऽऽदानादिलक्षणस्य दशनादिनापि निवर्त्यमानत्वान्नेन्द्रियत्वम् । मनसस्तु सर्वेन्द्रियोपकारकत्वादन्तःकरणत्वमिष्यत एवेति सम्प्रदायः।
नन्वेवं ज्ञानं प्रति प्रकृष्टकारणत्वमिन्द्रियत्वमिति पयंघसम्मम् । अत्र च कः प्रकर्षः ? व्यापारत्त्वत्वमितिचेत् ? न, आत्मनोप्यात्ममनोयोगरूपव्यापारसवात् । अविलम्बेन क्रियोत्पादकत्वमिति चेत् १ न, चक्षुरादेरपि व्यासङ्गदशायां ज्ञानानु.