________________
इन्द्रियवादः ]
[ ११० जीवभेदव्यवस्था परं प्रत्यसिद्धति द्वीन्द्रियादेस्त्रीन्द्रियादित्वोपगमेपि न क्षतिरिति वाच्यम् , ज्ञानापकर्षस्येन्द्रियनियम्यतया एकेन्द्रियपर्यन्तविश्रान्तत्वेनैकेन्द्रियादिव्यवस्थायाः सिद्धान्तसिद्धायाः स्वेच्छामात्रेणाऽन्यथाकत्तु मशक्यत्वात् । न च शरीरभेदादेव ज्ञानापकर्षभेदो नत्विन्द्रियभेदादिति वाच्यम् , ज्ञानापकर्षस्येन्द्रियापकर्षान्वयव्यतिरेकानुविधायित्वात् ।
किश्च मनसः कालत्रयावच्छिन्नार्थग्राहिणोऽनुमानावधिज्ञानादिवद्वर्त्तमानार्थग्राहिश्रोत्रादिसाधारणं नेन्द्रियत्वम् , किन्तु श्रोत्रेन्द्रियादपि पटुतरज्ञानजनकत्वेन नो(इ)न्द्रियत्वमेवेति 'पञ्चैवेन्द्रियाणी'ति समीचीनः पन्थाः।
तानि च द्रव्यभावभेदाद् द्विधा । तत्र द्रव्येन्द्रियाणि नित्युपकरणभेदाद्विधा । तत्र निवृत्तिः संस्थानरूपा बाह्याभ्यन्तरभेदेन द्विधा । तत्र बाह्या निवृत्तिर्मनुष्यशशकादेर्नानारूपा, अन्तर्निवृत्तिस्तूत्सेधागुलाऽसंख्येयभागप्रमितशुद्धात्मप्रदेशावच्छिन्नकदम्बपुष्पाद्याकारमांसगोलकरूपा । उपकरणं च श्रोत्राद्यन्तर्निवृत्तेविषयग्रहणशक्तिः, खङ्गस्येव च्छेदशक्तिर्वहनेरिव च दाहशक्तिः ।
अतिरिच्यते चेयमन्तनिवृत्तीन्द्रियात् । तत्सत्त्वेऽपि वातपित्तादिना विषयपरिच्छेदशक्तिविनाशे शब्दादिविषयाऽग्रहणोपपत्तेः। न च तदुपग्राहकाऽदृष्टविशेषविनाशादेव तदुपपत्तिः,