Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 127
________________ ११४ ] [ वादमालायां रूप योग्यत्वात्, अन्यथा सुषुप्तिकाले ज्ञानोत्पच्यापत्तेः । अथ तत्काले चाक्षुपादिज्ञानानुत्पादश्चक्षुरा देर्विषयेण मनसा च संयोगाऽभावात्, अनुमित्याद्यनुत्पत्तिश्च व्याप्तिज्ञानाद्यभावात् । न च सुषुप्त्यनुकूलमनः क्रियया मनःसंयोगनाशकाले उत्पन्नेन परामर्शेन सुषुप्तिसमकालोत्पतिकमनोयोगसहकृतेन सुषुप्ति द्वितीयक्षणेऽनुमितिरुत्पद्यतामिति वाच्यम्, असमवायिनः कार्यसहभावेन हेतुत्वान्मनोयोगनाशकाले परामर्शोत्पादाऽसम्भवादन्यथा सुषुप्तिकाले प्राक्तनत्वमनोयोगात्तवापि मसृणतूलिकादिसन्निकर्षेण त्वाचप्रसङ्गात् । तत्सामग्रीभूतव्याप्तिस्मृत्यादेः फलैककल्प्यत्वेन तत्काले परामर्शोत्पत्तौ मानाभावाद्वेति चेत् न, तत्काले आत्मादिमान सोत्पत्तेर्विना त्वमनोयोगहेतुत्वं दुर्वारत्वादिति" । मैवं आत्मनो विशेषगुणोपधानेनैव मानेन तदा विशेषगुणाभावेन तत्प्रत्यक्षाभावात्तत्तद्गुणानां विषयतया तद्भानहेतुत्वात् । सविषयकप्रकारकात्ममानसत्वस्यैव मनोयोगादिकार्यतावच्छेदकत्वाद्वा । यदि चैवमतिगौरवम्, तदा चर्ममनोयोग एव जन्यज्ञानमात्र हेतुरस्तु त्वमनोयोगस्य रासनादिकालेऽनुपगमात् । चर्मत्वं तैजसचर्मत्वादिसाधारणं न जातिरिति चेत् ? तथापि मानसत्वावच्छिन्न एव त्वमनोयोगो हेतुर्न तु जन्यज्ञानत्वावच्छिन्ने । न चैवं त्वाचत्वावच्छिन्नं प्रति पृथकारणत्वे गौरवं प्रामाणिकत्वेन तस्याऽदोपत्वात् । अन्यथा रास -

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158