Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 101
________________ म] [ वायूष्मादेः " सामान्यरूपयोः कारणत्वकल्पनाप्रसङ्गात् इति चाक्षुषजनकतावच्छेदकैकत्वनिष्ठवैजात्यस्य व्याप्यत्वमेव स्पार्शनजनकतावच्छेदकैकत्वनिष्ठ वै जात्यमतः कुतो वाय्वादेः स्पार्शनम् । अथ साङ्कर्यभिया वाय्वादेर्न स्पार्शनम्, त्रसरेण्वादेर्वा न च क्षयमित्यत्र विनिगमकाभावः । त्रसरेण्वादिरूपादेरेव चाक्षुपं न त्रसरेण्वादेरिति तत्रापि सुवचत्वात् । न च त्रसरेणुः रूपवान् त्रसरेणुश्चलतीत्यादिप्रत्यक्षानन्तरं त्रसंरंणु पश्यामीत्यबाधितानुव्यवसायवलात् त्रसरेण्यादेवःक्षुषमावश्यकमिति वाच्यम्, तदा शीतो वायुवती 'ति प्रत्यक्षानन्तरं 'व यू' स्पृशामी' त्यबाधितानुव्यवसायबलात् द्वयोरपि स्पार्शनन्वस्यावश्यकत्वात् । त्रसरेणु पश्यामीत्यनुव्यवसायम्य वा बाधितत्वं निश्चितं, 'वायु' स्पृशामी' त्यस्य वा बाधितत्वं सन्दिग्धमित्यस्य (श) पथमात्रनिर्णेयस्त्रादिति चेत न, एवंविधविरोधे विषयमात्रासिद्धेः विनिगमनाविरहादुभयोरेव साङ्कर्यवारणाय भ्रमत्वकल्पनेऽपि वाय्वादेः प्रत्यक्षत्वादिसिद्धेश्व | एकत्वनिष्ठेकवैजात्यस्यैव द्रव्यचाक्षुपस्पाई नोभयजनकतावच्छेदकत्वादिति नैयायिक सिद्धान्तं परिष्कुर्वन्ति । प्रबलतरयुक्त्या तदपि न सम्यगिति प्रतिभाति । स्पार्शनजनकतावच्छंदकवैजात्यव्यापकत्रसरेण्वेकत्वसाधारण जात्यं हि नित्यैकत्वसाधारणं निखिलतद्व्यावृत्तं वा ? आद्ये यदि नित्यैकत्वेषु मध्ये परमाण्वेकत्वमात्रसाधारणं तदा द्रव्यचाक्षुपं प्रति महत्त्वस्य

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158