Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 122
________________ विशेषवाद: ] [his संयोगी न तु शाखायामिति । ततः स्यात्सामान्यमेकं स्यादने- ' कमित्यनेकान्त एव कान्तः । [सामान्यवादः समाप्नः ] ३-विशेषवादः विशेषो नित्यो नित्यद्रव्यवृत्तिः पदार्थान्तरमिति नैया' यिकाः तदसत् तत्र प्रमाणाभावात् । नचात्यन्तसजातीयानां नित्यद्रव्याणां परस्परभेदग्रहो न विशेषं विनेति तरिसडि:, योगिनां तद्भेदग्रहे व्यावर्त्तकधर्मदर्शनस्याऽहेतुत्वात् । न च 'समवायित्वे सति समवायियद्व्यक्तेर्यद्वयावृत्तं तत्तदसमवेतसमवेतशून्यधर्मसमवायी' ति व्याप्तेर्घटपटादाव वधारणात् सजातीयनित्यद्रव्यद्वये परस्पराऽसमवेतसमवेतशून्यधर्मसिद्धावर्थाद्विशेषसिद्धि: । अत्र द्रव्यत्वादिभिः सिद्धसाधनवारणाय ' तदसमवेति' ति. एकत्वादिभिस्तद्वारणाय 'समवेत शून्ये' ति । अभावव्यक्तिभिस्तद्वारणाय समवायी' ति । अभावे व्यभिचारवारणाय हेतौ 'समवायित्वे सत्ती' ति । घटादावभावव्यावृत्तिसच्वेनाभावसमवेतत्वाऽप्रसिद्धया व्याप्यत्वाऽसिद्धिः स्यादिति 'समवायी' ति । नोपादेयमेव वा तत् साध्ये तदसमवेतत्वं परित्यज्य स्वाऽसमवायितत्कत्वस्य निवेशनीयत्वादिति चेत् १ न, सजातीयघटद्वये व्यभिचारात् स्वाश्रयसमवेतसमवेतत्वादिघटितपरंपरा सम्बन्धेन साध्यत्वं विशेषमादाय तत्रापि "

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158