________________
म]
[ वायूष्मादेः
"
सामान्यरूपयोः कारणत्वकल्पनाप्रसङ्गात् इति चाक्षुषजनकतावच्छेदकैकत्वनिष्ठवैजात्यस्य व्याप्यत्वमेव स्पार्शनजनकतावच्छेदकैकत्वनिष्ठ वै जात्यमतः कुतो वाय्वादेः स्पार्शनम् । अथ साङ्कर्यभिया वाय्वादेर्न स्पार्शनम्, त्रसरेण्वादेर्वा न च क्षयमित्यत्र विनिगमकाभावः । त्रसरेण्वादिरूपादेरेव चाक्षुपं न त्रसरेण्वादेरिति तत्रापि सुवचत्वात् । न च त्रसरेणुः रूपवान् त्रसरेणुश्चलतीत्यादिप्रत्यक्षानन्तरं त्रसंरंणु पश्यामीत्यबाधितानुव्यवसायवलात् त्रसरेण्यादेवःक्षुषमावश्यकमिति वाच्यम्, तदा शीतो वायुवती 'ति प्रत्यक्षानन्तरं 'व यू' स्पृशामी' त्यबाधितानुव्यवसायबलात् द्वयोरपि स्पार्शनन्वस्यावश्यकत्वात् । त्रसरेणु पश्यामीत्यनुव्यवसायम्य वा बाधितत्वं निश्चितं, 'वायु' स्पृशामी' त्यस्य वा बाधितत्वं सन्दिग्धमित्यस्य (श) पथमात्रनिर्णेयस्त्रादिति चेत न, एवंविधविरोधे विषयमात्रासिद्धेः विनिगमनाविरहादुभयोरेव साङ्कर्यवारणाय भ्रमत्वकल्पनेऽपि वाय्वादेः प्रत्यक्षत्वादिसिद्धेश्व | एकत्वनिष्ठेकवैजात्यस्यैव द्रव्यचाक्षुपस्पाई नोभयजनकतावच्छेदकत्वादिति नैयायिक सिद्धान्तं परिष्कुर्वन्ति । प्रबलतरयुक्त्या तदपि न सम्यगिति प्रतिभाति । स्पार्शनजनकतावच्छंदकवैजात्यव्यापकत्रसरेण्वेकत्वसाधारण जात्यं हि नित्यैकत्वसाधारणं निखिलतद्व्यावृत्तं वा ? आद्ये यदि नित्यैकत्वेषु मध्ये परमाण्वेकत्वमात्रसाधारणं तदा द्रव्यचाक्षुपं प्रति महत्त्वस्य