________________
प्रत्यक्षत्वाऽप्रत्यक्षत्वविवादरहस्यम् ]
[८१ कारणत्वमावश्यकम् । यदि च गगनाद्येकत्वमात्रसाधारणं तदा द्रव्यचाक्षुषं प्रति रूपस्य कारणत्वमावश्यकम् । तथा च कार्यकारणद्वयमविशिष्टमेव, एकत्वनिष्ठवैजात्यकल्पनं पुनरधिकम् । अन्त्येऽपि कार्यमात्रवृत्तिजातितया तदवच्छिन्नं प्रति कस्यचित्कारणत्वस्यावश्यकतया द्रव्यचाक्षुषं प्रत्येकत्वस्य कारणत्वमादाय कारणताद्वयकल्पनमविशिष्टमेव, । एकत्वनिष्ठवैजा. त्यकल्पनं पुनरधिकमेव. कार्यमात्रवृत्तिमातेः कार्यतावच्छेदकत्वनियमस्य सकलप्रामाणिकसिद्धत्वात ।
किश्च घटाकाशसंयोगद्वित्वादेः स्पार्शनवारणाय व्यासज्यवृत्तिगुणत्वाचं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन लौकिकविषयत्वावच्छिन्नत्वाचाभावस्य प्रतिबन्धकत्वमावश्यकम् । तस्य च प्रतिबध्यतावच्छेदकं न व्यासज्यवृत्तिगुणत्वाचत्वम् । गुणादित्वाचं प्रति प्रकृष्टमहत्त्ववदुद्भुतस्पर्शवत्समवायस्यातिरिक्तकारणत्वकल्पनापत्तेः । अपि तु निखिलगुणकर्मत्वाचसाधारणं द्रव्यान्यसत्त्वाच्चत्वमेव तत्प्रतिबध्यतावच्छेदकम् । द्रव्यान्यसत्त्वं च प्रतिबध्यतावच्छेदकतया विशेषगुणकर्ममात्रवृत्तिजातिविशेष इति त्वक्संयुक्तसमवायादिसन्निकर्षहेतुत्वनिराकरणावसरे प्रपश्चितम् । तथा च वायुष्मादेरस्पार्शनत्वे सद्वृत्तिस्पर्शस्याप्यस्पार्शनोपपत्तिः । न च स्पर्शतरद्रव्यान्यसत्त्वाचत्वमेव तत्प्रतिबध्यतावच्छेदकमिति वाच्यम् , स्पर्शतरत्वप्रवेशे गौरवापत्तेः । स्पर्शतरत्वप्रवेशे घटाकाशसंयोगादौ