Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 99
________________ ८६] [ वायूष्मादेः न च चाक्षुषत्वस्य कार्यतावच्छेदकत्वे स्पार्शनप्रत्यक्षं प्रति उद्भूतरूपस्याऽजनकतया रसनस्य स्पार्शनवारणाय द्रव्यस्पार्शनं प्रति उद्भूतस्पर्शजनकतायां जलस्पर्शनिष्ठशीतत्वव्याप्यानुद्भूतत्वाभावस्याप्यवच्छेदककोटौ प्रवेशावश्यकत्वे गौरवापत्तेः, प्रत्यक्षत्वस्य कार्यतावच्छेदकत्वे स्पार्शनप्रत्यक्षं प्रति उद्भूतरूपस्य जनकतया तदभावादेव रसनस्पार्शनासम्भवान्न तत्प्रवेशः, उद्भूतरूपानुद्भूतस्पर्शवतो जलस्याभावादिति वाच्यम् , प्रत्यक्षस्य कार्यतावच्छेदकत्वे त्वाचीयलौकिकविषयत्वानामपि कार्यतावच्छेदकसम्बन्धकोटौ प्रवेशेन मह. गौरवात् । ननु तथापि प्रत्यक्षत्वस्योद्भूतरूपकार्यतावच्छेदकत्वे स्पर्शनिष्ठानुद्भूतत्वावच्छिन्नप्रतियोगिताकानुद्भूतकाभावकूटत्वेन द्रव्यस्पार्शनं प्रति हेतुत्वं, गगनादावाप तादृशाभावकूटसत्त्वेऽप्युद्भूतरूपात्मककारणान्तरविरहादेवास्पार्शनत्वोप - पत्तः । चाक्षुषत्वस्य कार्यतावच्छेदकत्वे तु स्पर्शनिष्ठ नुद्भुतवाभावकूटवत्स्पर्शत्वेनैव द्रव्यस्पार्शनं प्रति हेतुत्वमुपेयमन्यथा गगनादेरपि स्पार्शनापत्तेः, उद्भूतरूपस्य स्पार्शनाऽहेतुत्वात् । तथा च स्पर्शत्वस्य प्रवेशात्स्पर्शत्वानुद्भूतत्वाभावकूटयोविशेषणविशेष्यभावे विनिगमकाभावेन कार्यकारणभावद्वयप्रसंगाच महद्गौरवमतः सन्दिग्धव्यभिचारकत्वादिदमपि प्रत्यक्षत्वमुद्भूतरूपकार्यतावच्छेदकं लाघवादिति चेत् ? न, अपे

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158