________________
८६]
[ वायूष्मादेः न च चाक्षुषत्वस्य कार्यतावच्छेदकत्वे स्पार्शनप्रत्यक्षं प्रति उद्भूतरूपस्याऽजनकतया रसनस्य स्पार्शनवारणाय द्रव्यस्पार्शनं प्रति उद्भूतस्पर्शजनकतायां जलस्पर्शनिष्ठशीतत्वव्याप्यानुद्भूतत्वाभावस्याप्यवच्छेदककोटौ प्रवेशावश्यकत्वे गौरवापत्तेः, प्रत्यक्षत्वस्य कार्यतावच्छेदकत्वे स्पार्शनप्रत्यक्षं प्रति उद्भूतरूपस्य जनकतया तदभावादेव रसनस्पार्शनासम्भवान्न तत्प्रवेशः, उद्भूतरूपानुद्भूतस्पर्शवतो जलस्याभावादिति वाच्यम् , प्रत्यक्षस्य कार्यतावच्छेदकत्वे त्वाचीयलौकिकविषयत्वानामपि कार्यतावच्छेदकसम्बन्धकोटौ प्रवेशेन मह. गौरवात् ।
ननु तथापि प्रत्यक्षत्वस्योद्भूतरूपकार्यतावच्छेदकत्वे स्पर्शनिष्ठानुद्भूतत्वावच्छिन्नप्रतियोगिताकानुद्भूतकाभावकूटत्वेन द्रव्यस्पार्शनं प्रति हेतुत्वं, गगनादावाप तादृशाभावकूटसत्त्वेऽप्युद्भूतरूपात्मककारणान्तरविरहादेवास्पार्शनत्वोप - पत्तः । चाक्षुषत्वस्य कार्यतावच्छेदकत्वे तु स्पर्शनिष्ठ नुद्भुतवाभावकूटवत्स्पर्शत्वेनैव द्रव्यस्पार्शनं प्रति हेतुत्वमुपेयमन्यथा गगनादेरपि स्पार्शनापत्तेः, उद्भूतरूपस्य स्पार्शनाऽहेतुत्वात् । तथा च स्पर्शत्वस्य प्रवेशात्स्पर्शत्वानुद्भूतत्वाभावकूटयोविशेषणविशेष्यभावे विनिगमकाभावेन कार्यकारणभावद्वयप्रसंगाच महद्गौरवमतः सन्दिग्धव्यभिचारकत्वादिदमपि प्रत्यक्षत्वमुद्भूतरूपकार्यतावच्छेदकं लाघवादिति चेत् ? न, अपे