________________
प्रत्यक्षत्व'ऽप्रत्यक्षत्व विवादरहस्यम् ]
.. [ ८५
पस्थितावेव सामान्यधर्मावच्छेदेन कार्यकारणभावग्रह इति भट्टाचार्यैरभिहतत्वात् । न च कारणताहमात्र परं, कार्यकारणभावग्रह इत्यभिधानादविशेषेणोभयपरत्वात् , घूमत्वावच्छेदेन च कार्यताग्रहस्यैव तत्र प्रकृनत्वेन कारणताग्रहमात्रपरत्वस्याऽयुक्तत्वाच्च ।
न च प्रत्यक्षस्य नित्यसाधारणत्वेन व्यापकधर्म वे सन्दिग्धव्यभिचारकत्वेऽपि तदेवोद्भूतरूपस्य कार्यतावच्छेदकम् , मृतत्वविशिष्टे लौकिकविषयता च कार्यतादिशि प्रत्यासत्तिलाघवात् , चाक्षुषत्वस्य कार्यतावच्छेदकत्वे द्रव्यत्वविशिष्टलौकिकविषयत्वं कार्यतादिशि प्रत्यासत्तिमूर्त्तत्वविशिष्टलौकिकविषयत्वं वेत्यत्र विनिगमकाभावेन कार्यकारणभावद्वयापत्तेः, प्रत्यक्षत्वस्य कार्यतावच्छेदकत्वे आत्मप्रत्यक्ष व्यभिचारापत्त्या द्रव्यत्वविशिष्टलौकिकविषयत्वस्य कार्यदिशि सम्बन्धत्वाऽसदावादिति वाच्यम्, मूर्तत्वविशिष्टलौकिकविषयतासम्बन्धेन प्रत्यक्षत्वावच्छिन्नस्य कार्यत्वेऽपि द्रव्यत्वविशिष्टलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं मूर्त्तत्वविशिष्टलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं च प्रत्येकमादाय विनिगमनाविरहेण कार्यकारणभावत्रयापत्तेदुर्वारत्वात् । वस्तुगत्या द्रव्यनिष्ठस्य लौकिकविषयत्वस्य कार्यतावच्छेदकसम्बन्धत्वेन द्रव्यत्वविशिष्टत्वस्य सम्बन्धाऽघटकतया विनिगमनाविरहाच । द्रव्यनिष्ठचाक्षुषविषयत्वमूर्तनिष्ठचाक्षुषविषयत्वयोदाभावात् ।