________________
८४ ]
[ वायूष्मादेः मानाभावात् । त्वाचीयलौकिकविषयित्वमूर्त्तत्वयोः प्रवेशेन शरीरगौरवत्वेन च द्रव्यलौकिकचाक्षुषत्वमपि लौकिकविषयतासम्बन्धेन द्रव्यत्वव(वा)चाक्षुषत्वं, द्रव्यलौकिकचाक्षषे द्रव्यत्वभानानियमात् । द्रव्यनिष्ठलौकिकविषयतायां मानाभावात् । त्वाचीयलौकिकविषयित्वः कार्यतावच्छेदकप्रत्यासत्तिस्तेन समूहालम्बनचाक्षुषमादाय गुणादौ न व्यभिचारः । तथा च चाक्षुषत्वप्रवेशात् मूर्त्तत्ववच्चाक्षुषत्वमादाय विनिगमकाभावेन च क्षुषत्वद्रव्यत्वादिमत्त्वयोर्विशेषणविशेष्यभावेन च कार्यकारणभावचतुष्टयप्रसङ्गाच्च इदमेव गुर्विति वाच्यम् । चाक्षपत्वमात्रस्य कारितावच्छेदकत्वात् । तद्रव्यनिष्ठलौकिकविषयतायाः कार्यतावच्छेदकसम्बन्धत्वावश्यकत्वादेव व्यभिचारविरहात् । प्रत्यक्षत्वस्य नित्य साधारणतया तन्मात्रस्य कार्यतावच्छेदकत्वाऽसम्भवात् ।
किञ्च वायूष्मादेः प्रत्यक्षत्वसन्देहेन मूर्तलौकिकप्रत्यक्षत्वस्य प्रत्यक्षत्वस्य वा सन्दिग्धव्यभिचारकत्वात् चाक्षुषत्व व्यापकत्वाच्च न तयोः कार्यतावच्छेदकत्वसंभवः । सम्भवति निश्चिताऽव्यभिचारके रूपे इक्ष्यमाणव्यभिचाररूपेण कारणत्ववकार्यत्वस्यापि विना लाघवमकल्पनात् । सम्भवति क्लुप्ताऽगु रुविशेषधर्मेऽवच्छेदके व्यापकरूपेण कारणत्ववत् कार्यस्यापि बिना लाघवमकल्पनाच्च । व्याप्तिग्रहोपाये तदुपादानमेव शङ्काप्रतिवन्धकमिति व्याख्यानानन्तरमनुगताऽगुरुविशेषानु