________________
[ ८३
प्रत्यक्षत्वाऽप्रत्यक्षत्व विवाद रहस्यम् |
,
तदभ्यसत् । यथा त्रसरेणुव्यावृत्तविजातीयमहत्त्वस्य सामान्यतो द्रव्यलौकिकप्रत्यक्षत्वमेव कार्यतावच्छेदकं लाघवात् द्रव्यस्पार्शनस्य तु कार्यतावच्छेदकत्वे द्रव्यचाक्षुषं प्रति पृथग्महत्त्व मामान्यस्य कारणत्वकल्पनापत्तेरतस्त्रसरेणुर्न चाक्षुषः किन्तु तद्वृत्तिरूपादिकमेव चाक्षुषमित्यस्य सुवचत्वेsपि ' त्रसरेणुश्वलतीति' प्रत्ययानन्तरं 'त्रसरेणु पश्यामी' त्यबाधितानुव्यवसायबलात् द्रव्यस्पार्शनस्यैव विजातीय महत्त्व -- कार्यतावच्छेदकत्व स्वीकारस्तथा 'शीतो वायुर्वाती' त्यादिप्रत्ययानन्तरं 'वायु ं स्पृशामि' इत्यबाधितानुव्यवसायानुपपतेरेव मूर्त्तलौकिकप्रत्यक्षस्योद्भूतरूपकार्यतावच्छेदकत्वाभावे विनिगमकत्वात् । मूर्त्तलौकिकप्रत्यक्षत्वस्य नित्यसाधारणतया कार्यतावच्छेदकत्वायोगाच्च । नित्यव्यावृत्तेधर्म (में) कार्यताव - च्छेदके संभवति असति लाघवे तत्साधारणधर्मेण कार्यत्वकल्पनानुदयात् ।
न वै मूर्त्तलौकिकप्रत्यक्षं लौकिक विषयतासम्बन्धेन मूर्त्तस्ववत्त्वम् । मूर्त्तलौकिकप्रत्यचे मुत्तत्वजातेरपि भाननियमात् । तच्च न नित्यसाधारणं, भगवत्साक्षात्कारे लौकिकविषयताविरहात् मूर्त्तनिष्ठाया लौकिकविषयतायाः कार्यतावच्छेदकसम्बन्धत्वाभ्युपगमाश्च न समूहालम्बनप्रत्यक्षमादाय मूर्त्तवृत्तिगुणादौ व्यभिचार इति (चन) वाच्यम्, भगवत्साक्षात्कारसाधारणसाक्षात्कारत्वावच्छिन्नविषयतातिरिक्तलौकिकविषयतायां
"