________________
८२ ]
[ वायूष्मादेः तथापि विनिगमनाविरहेण मृतलौकिकप्रत्यक्षत्वावच्छिन्नं प्रति उद्भूतरूपस्य हेतुतया माऽस्तु वायुष्मादेः त्वाचसाक्षास्कारः. माऽस्तु च संख्यापरिमाणादिसाधारणव्यासज्यवृत्तिगुण(त्वाचीत्वाचत्वावच्छिन्नं प्रति आश्रयत्वाचाभावस्य प्रतिबन्धकतया वाय्वादिवृत्तिसंख्यागुणस्यापि त्वाचादिसाक्षाकारः, वाय्वादिवृत्तिक्रियायाः वाय्वादिघटितसन्निकर्षण चायवादिवृत्तिवायुत्वोष्मत्वद्रव्यत्वादिजातेश्च त्वाचसाक्षात्कारस्तु मीमांसकाभिमतो दुर्वार एव, द्रव्यान्यद्रव्यसमवेतत्वाचत्वावच्छिन्नं प्रति त्वक्संयुक्तप्रकृष्टमहत्त्वोद्भूतस्पर्शवत्सम वायत्वेनैव प्रत्यासत्तित्वात् , त्वक्संयुक्तप्रकृष्टमहत्त्वोद्भूतरूपस्पर्शवत्समवायत्वेन प्रत्यामत्तित्वे गौरवात् , वायुष्मादिस्पर्शस्वाचे व्यभिचाराच । न च त्वक्संयुक्तप्रकृष्टमहत्त्वोद्भूतरूपसमवायस्य स्पर्शतरमूर्तसमवेतप्रत्यक्षत्वावच्छिन्नं प्रति सन्निकर्षतया न वाय्वादिवृत्तिक्रियादेः स्पार्शनम् । स्पर्शप्रत्यक्षं प्रति तु त्वक्संयुक्तप्रकृष्टमहत्त्वोद्भूतस्पर्शवत्समवाय एव सन्निकर्ष इति वाच्यम् , गुरुतरकार्यकारणभावद्वयकल्पते गौरवान्मानाभावाच । वाय्वादिवृत्तिक्रियायाः वाय्वादिघटितसन्निकर्षण वाय्वादिवृत्तिवायुत्वोष्मत्वादिजातेश्च त्वाचप्रत्यक्षत्वस्येटत्वात् , प्राचामनभ्युपगमभावस्याऽकिश्चित्करत्वादिति नैयायिकसिद्धान्तं परिष्कुर्वन्ति ।