________________
प्रत्यक्षाऽप्रत्यक्षत्वविवादरहस्यम् ]
[८१ नैयायिकैकाशिनस्तु मूर्तलौकिकप्रत्यक्षत्वद्रव्यलौकिकचाक्षुषत्वयोः समशरीरतया विनिगमकाभावादुभयमेवो
द्भूतरूपकार्यतावच्छेदकम् , अतो न वायुष्मादेः स्पार्शनसाक्षात्कारसम्भवः । न च मूर्तलौकिक प्रत्यक्षत्वस्य कार्यताव च्छेदकत्वेऽपि द्रव्यलौकिकचाक्षुषत्वं कार्यतावच्छेदकमावश्य(क)म् , अन्यथा आत्मन्युद्भूतरूपाभावान्मूर्तप्रत्यक्षोत्पत्त्यसंभवेऽपि चक्षुःसंयोगलक्षणसन्निकर्षसत्त्वेन द्रव्यलौकिकचाक्षषोत्पत्निप्रसङ्गस्य दुर्वारत्वात , तथा चेदमेव विनिगमकमिति वाच्यम् , मूर्तलौकिकप्रत्यक्षवमात्रस्य कार्यतावच्छेदकत्वेऽपि मूर्तलोकिकप्रत्यतातिरिक्तस्य द्रव्यलौकिकचाक्षषस्याऽलीकतया सामान्यसामग्रीविरहादेवाऽऽत्मनि द्रव्यलौकिकचाक्षषोत्पत्ते धारणसम्भवात् । न च द्रव्यान्यद्रव्यसमवेतस्पार्शनं प्रति वसंयुक्तत्वाचवत्समवायत्वेन सन्निकर्षस्य करणता, न तु स्वसंयुक्तप्रकृष्टमहत्त्वोद्भूतस्पर्शवत्समवायत्वेन, महत्त्वोद्भूतस्पशयोः उभयोः प्रवेशे गौरवात् । त्वाचवत्वं चोपलक्षणं न च विशेषणं, तेन सर्वत्र पूर्वमाश्रयत्याचविरहेऽपि न क्षतिः । तथा च वाय्वादेरस्पार्शनत्वे तांत्तस्पर्शस्पार्शनानुपपत्तिरेव मृतलौकिकप्रत्यक्षत्वस्योद्भूतरूपकार्यतावच्छेदकत्वाभावे विनिगमकमिति वाच्यम्, एकस्यामेव व्यक्तौ कालभेदेन त्वाचानामनन्ततया त्वक्संयुक्तत्वतत्समवेतत्वमपेक्ष्य त्वक्संयुक्तमहत्त्वोद्भुतस्पर्शवत्समवायसमवायत्वस्यैव लघुत्वात् । ननु